________________
आगम
(४४)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[8]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [ - ] / गाथा ||४||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
क्षयेण निर्मूलमपगमेन निर्वृत्तं क्षायिकं, उदयावलिकाप्रविष्टस्यांशस्य क्षयेण शेषस्य तूपशमेन निर्वृत्तं क्षायोपशमिकं, | उदयावलिकाप्रविष्टस्यांशस्य क्षये सति शेषस्य भस्मच्छन्नान्नेरिवानुद्रेकावस्था उपशमः तेन निर्वृत्तमोपशमिकम्, आहऔपशमिकक्षायोपशमिकयोः कः प्रतिविशेषः ?, उच्यते, क्षायोपशमिके तदावारकस्य कर्म्मणः प्रदेशतोऽनुभवोऽस्ति न त्वौपशमिके इति । दर्शनमेवासारमिध्यात्वादिकचवररहिता विशद्धरध्या यस्य तत्तथा तस्यामन्त्रणं हे दर्शनविशुद्धरथ्याक ! 'सेर्लोपः सम्बोधने हखो वेति प्राकृतलक्षणसूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचना (र्थत्वा) त् दीर्घनिर्देशो, यथा गोयमा इत्यत्र, सङ्घः- चातुर्वर्णः श्रमणादिसङ्घातः स नगरमिव सङ्घनगरं 'व्याघ्रादिभिगणिस्तदनुक्ता'विति समासो, यथा पुरुषो व्याघ्र इव पुरुषव्याघ्रः, तस्यामन्त्रणं हे सङ्घनगर ! 'भद्रं कल्याणं 'ते' तव भवतु अखण्डचारित्रप्राकार ! चारित्रं मूलगुणाः अखण्डम् — अविराधितं चारित्रमेव प्राकारो यस्य तत्तथा 'मांसादिषु चेति' प्राकृतलक्षणात् चारित्रशब्दस्यादी म्हखः तस्यामन्त्रणं हे अखण्डचारित्रप्राकार!, दीर्घत्वं प्रागिव ॥ भूयोऽपि सङ्घस्यैव संसारोच्छेदकारित्वाचक्ररूपकेण स्तवमाह
संजमतवतुंबारयस्स नमो सम्मत्तपारियलस्स । अप्पडिचकस्स जओ होउ सया संघचकस्स ॥५॥ संयमः - सप्तदशप्रकारः यदुक्तम्- “पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डत्रयविरतिश्चेति संयमः सप्तदशभेदः || १||” तपो द्विधा - वायमाभ्यन्तरं च तत्र वासं पविधं, यदुक्तम्- "अनशनमूनोदरता वृत्तेः संक्षेपणं
For Park Use Only
~88~
५
१०
१३
www.ncbrary org