________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
....................... मूलं [-]/गाथा ||३|| .............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||३||
दीप अनुक्रम
श्रीमलय-18 धर्माः सर्वेऽपि लोलीभावेन व्यासाः तथाऽप्ययं धर्मी एते धर्मा इति परस्परं भेदोऽप्यस्ति, अन्यथा तद्भावानु-1Bधर्मिगिरीयादा पपत्तिः, तथा च सति प्रतीतिबाधा, मिथो भेदेऽपि च विशिष्टान्योऽन्यानुवेघेन सर्वधर्माणां धम्मिणा व्याप्तत्वानन्दीवृत्तिः
भेदाभेददभेदोऽप्यस्ति, अन्यथा तस्य धर्मा इति सङ्गानुपपत्तेः, ततश्च न सर्वेषां वीतरागत्वप्रसङ्गः, केवलभेदस्थानभ्युपगमात् ,IEL
सिद्धि ॥४१॥ नापि दोषक्षयवदात्मनोऽपि क्षयः, केवलाभेद स्थानभ्युपगमादिति सर्व सुस्थम् । ननु येनैव क्रमेण भगवतोऽतिशयलाभः
तेनैव क्रमेण तदभिधानं युक्तिमत् नान्यथा, भगवतश्च प्रथमतोऽपायापगमातिशयस्य लाभः पश्चात् ज्ञानातिशयस्य तकिमर्थ व्युत्क्रमनिर्देशः?, उच्यते, "फलप्रधानाः समारम्भा" इति ज्ञापनाथें । तथा 'भद्र' कल्याणं भवत, सुरैःशक्रादिभिः असुरैः-चमरादिभिर्नमस्कृतस्य, अनेन पूजातिशयमाह, न हि विभवानुरूपां भगवतः पूजामकृत्वा सुरासुरा नमस्कृतिक्रियायां प्रवृत्तिमातेनुः, तथाकल्पत्वात् , पूजां च ते कृतवन्तोऽष्टमहापातिहार्यलक्षणां, तानि च महाप्रातिहार्याण्यमूनि-"अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च। भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि |जिनेश्वराणाम् ॥ १॥" पूजातिशयश्चान्यथानुपपत्त्या वागतिशयमाक्षिपति, न हि वागतिशयमन्तरेण तथा पूजाति
शयो भवति, सामान्यकेवलिनामदर्शनात् , तदेवं ज्ञानातिशयादयश्चत्वारो मूलातिशया उक्ताः, एते च देहसौगन्ध्यादीनामतिशयानामुपलक्षणम्, एतेषु सत्सु तेषामवश्यं भावात् । तथा 'भद्रं' कल्याणं भवतु 'धूतरजसः' धूर्त-कम्पितं ४ है स्फोटितं रजो-बध्यमानं कर्म येन स धूतरजाः तस्य, अनेन सकलसांसारिकक्लेशविनिर्मुक्तावस्थामाह, यतो वध्यमा
२०
4555
॥४१॥
SAREairahana
~85~