________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [-]/गाथा ||३|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||३||
दीप अनुक्रम
|क्तिरनवस्था च, तन्नैकान्तभेदपक्षे धर्मिधर्मभावः, नाप्येकान्ताभेदपक्षे, यतस्त स्मिन्नभ्युपगम्यमाने धर्ममात्रं वा स्याद्ध|म्मिमात्रं वा, अन्यथै कान्ताभेदानुपपत्तेः, अन्यतराभावे चान्यतरस्याप्यभावः, परस्परनान्तरीयकत्वाद्, धर्मनान्तरी-1 यको हि धर्मी, धर्मिनान्तरीयकाश्च धाः, ततः कथमेकाभावेऽपरस्थावस्थानमिति?, कल्पितो धर्मधमिभावः ततो न दूषणमिति चेत् तर्हि वस्त्वभावप्रसङ्गः, न हि धर्मम्मिखभावरहितं किञ्चिद्वस्वस्ति, धर्मधमिभावश्च |
कल्पित इति तदभावप्रसङ्गः, धर्मा एव कल्पिता न धर्मी तत्कथमभावप्रसङ्ग इति चेत्, न, धर्माणां कल्पनामात्रदि त्वाभ्युपगमेन परमार्थतोऽसत्त्वाभ्युपगमात् , तदभावे च धर्मिणोऽप्यभावापत्तेः, अथ तदेवैकं खलक्षणं सकलसजाहै। तीयविजातीयव्यावृत्त्येकखभावं, धमिव्यावृत्तिनिबन्धनाश्च या व्यावृत्तयो भिन्ना इव कल्पितास्ता धर्माः, ततो न क|श्चिन्नो दोषः, तदप्ययुक्तम् , एवं कल्पनायां वस्तुतोऽनैकान्तात्मकताप्रसक्तेः, अन्यथा सकलसजातीयविजातीयव्यावृत्त्ययोगात्, न हि येनैव स्वभावेन घटादू व्यावर्त्तते पटः तेनैव स्तम्भादपि, स्तम्भस्य घटरूपताप्रसक्तेः, तथाहि-घटाद् व्यावर्तते पटो घटव्यावृत्तिखभावतया स्तम्भादपि चेद् घटव्यावृत्तिखभावतयैव व्यावर्त्तते तर्हि बलात् स्तम्भस्य घटरूपताप्रसक्तिः, अन्यथा तत्वभावतया व्यावृत्त्ययोगात् , तस्माद्यतो यतो व्यावर्त्तते तत्तद्व्यावृत्तिनिमित्तभूताः खभाषा अवश्यमभ्युपगन्तव्याः, ते च नैकान्तेन धर्मिणोऽभिन्नाः, तदभावप्रसङ्गात् , तथा च तदवस्थ एव पूर्वोक्तो दोषः, तस्माद् भिन्नाभिन्नाः, भेदाभेदोऽपि धर्मधर्मिमणोः कथमिति चेत्, उच्यते, इह यद्यपि तादात्म्यतो धमिणां
~84~