________________
आगम
(४४)
प्रत
सूत्रांक
||3||
दीप
अनुक्रम
[3]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [ - ]/गाथा ||३||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ४० ॥
नुगम इत्यन्योऽन्याश्रयः, आह च - "अभिलाषस्मरणयोः, प्रकृतेरेव वृत्तितः । अभिलाषाच तद्वृत्तिरित्यन्योऽन्यसमाश्रयः ॥ १ ॥” अथानादिवासनावशात्प्रकृतिविषयौ स्मरणाभिलाषी, तदद्भ्यसत्, वासनाया अपि प्रकृतिविकार★ तया प्रकृतेः पूर्वमभावात्, अथात्मखभावरूपा सा वासना तर्हि तस्याः कदाचनाप्यात्मन इवोपरमासम्भवात्सर्वदाऽप्यमुक्तिरेवेति यत्किञ्चिदेतत् । यदप्युक्तम्- 'रागादयो धर्माः, ते च किं धर्मिणो भिन्ना अभिन्ना वा' इत्यादि, तदप्ययुक्तं, भेदाभेदपक्षस्य जात्यन्तरस्याभ्युपगमात् केवलभेदाभेदपक्षे धर्मधर्मिभावस्यानुपपद्यमानत्वात्, तथाहिधर्मधर्मिणोरेकान्तेन भेदेऽभ्युपगम्यमाने धर्मिणो निःखभावतापत्तिः खभावस्य धर्मत्वात्तस्य च ततोऽन्यत्वात्, खो भावः स्वभावः तस्यैवात्मीया सत्ता, न तु तदर्थान्तरं धर्म्मरूपं ततो न निःखभावतापत्तिरिति चेत्, न, इत्थं स्वरूपसत्ताऽभ्युपगमे तदपरसत्तासामान्ययोगकल्पनाया वैयर्थ्याप्रसङ्गात् अपि च-- यद्येकान्तेन धर्मधर्मिणोर्भेदः ततो धर्मिणो ज्ञेयत्वादिभिः धम्मैरननुवेधात् तस्य सर्वथाऽनवगमप्रसङ्गो, न ह्यज्ञेयस्वभावं ज्ञातुं शक्यत इति, तथा च सति तदभावप्रसङ्गः कदाचिदप्यवगमाभावात्, तथापि तत्सत्त्वाभ्युपगमेऽतिप्रसङ्गः, अन्यस्यापि यस्य कस्यचित् कदाचिदप्यनवगतस्य पष्ठभूतादेर्भावापत्तेः एवं च धर्म्यभावे धर्माणामपि ज्ञेयत्वप्रमेयत्वादीनां निराश्रयत्वादभावापत्तिः, न हि धर्म्याधाररहिताः कापि धर्म्माः सम्भवन्ति, तथाऽनुपलब्धेः, अन्यच - परस्परमपि तेषां धर्म्माणामेकान्तेन भेदाभ्युपगमे सत्त्वाद्यननुवेधात् कथं भावाभ्युपगमः १, तदन्यसत्यादिधर्म्माभ्युपगमे च धर्मित्वप्रस
Education International
For Pernal Use Only
~83~
सांख्यमुक्ति
निरासः
१५
२०
॥ ४० ॥
२६
Manerary.org