SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ..................... मूलं [-]/गाथा ||३|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: श्रीमलयगिरीया नरात्म्यनिराकरणं. प्रत सूत्रांक ||३|| नन्दीवृत्तिः ॥३९॥ दीप अनुक्रम विदुषामास्थोपनिबन्धो युक्तः, यत्तु निःश्रेयसपदमधिरूढस्य सुखं तत्परमानन्दरूपमपर्यवसानं च, तच प्रायो युक्ति- लेशेन प्रागेवोपदर्शितम् , आगमतो वाऽनुसतव्यम् , आगमप्रमाणवलाद्धि सकलमपि परलोकादिखरूपं यथावदवग- न म्यते, नान्यतः, तेन यदुच्यते प्रज्ञाकरगुप्तेन-दीर्घकालसुखादृष्टाविच्छा तत्र कथं भवेदिति, तदपास्तमवसेयम् , आगमतो दीर्घकालसुखस्य दर्शनात्, न चागमस्य न प्रामाण्यं, तदप्रामाण्ये सकलपरलोकानुष्ठानप्रवृत्त्यनुपपत्तेः, |उपायान्तराभावात् , तत आगमबलादुक्तस्वरूपमोक्षसुखमवेत्य तत्रागमे सर्वात्मना निषण्णमानसः संसाराद्विरको यद्यत्संसारहेतुः तत्तत्परिजिहीपुररक्तद्विष्टः सर्वकर्मनिमूलनाय प्रकर्षेण यतते, तस्य चैवं प्रयतमानस्य कालक्रमेण विशिष्टकालादिसामग्रीसम्बासी प्रतनुभूतकर्मणः सकलमोहविकारप्रादुर्भावविनिवृत्तेरणिमाद्यैश्चर्यलब्धावपि नौत्सुक्यमुपजायते, अत एव च तस्य मोक्षेऽपि न स्पृहाऽभिष्वङ्गापरपर्याया, तस्या अपि मोहविकारत्वात् , केवलं सा संसाराद्विरक्तिहेतुः खयमपि च परम्परानिरनुबन्धिनीत्यर्वाचीनावस्थायां प्रशस्यते, ननु यदि मोक्षेऽपि न स्पृहा कथं तर्हि तदर्थं प्रवृत्युपपत्तिः, न, लोकेऽपि स्पृहाव्यतिरेकेणापि तत्तत्कार्यकरणाय प्रवृत्तिदर्शनात् , तथाहि-दृश्यन्ते ४/ केचित् गम्भीराशया अभिष्वङ्गात्मिका स्पृहामन्तरेणापि यथाकालं भोजनाद्यनुतिष्ठन्तः, तथाविधौत्सुक्यलाम्पट्याद्य| दर्शनाद्, अपि च-यथा न मोक्षे स्पृहा तथा न संसारेऽपि, संसारादत्यन्तं विरक्तत्वात् , ततः सकलमपि संसारहेतुं परित्यजन्तः कथमिव संसारपरिक्षये मोक्षस्पृहाव्यतिरेकेणापि न मुक्तिभाजः, तदेवं सर्वत्र स्पृहारहितस्य सूत्रोक्त- - २६ ~81~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy