________________
आगम
(४४)
प्रत
सूत्रांक
||3||
दीप
अनुक्रम
[3]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः )
मूलं [ - ]/गाथा ||३||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
वासनाऽपरपर्यायः संस्कार आधीयते स च यावदवतिष्ठते तावत्सादृशार्थदर्शनादाभोगतो वा स्मृतिरुदयते, संस्काराभावे तुन, ततोऽन्वविज्ञानाभ्युपगमे परमार्थतोऽनुसन्धातुरे कस्याभ्युपगमात्कार्यकारण भावावगमो निखिलजगदुःखितापरिभावनं शास्त्रपौर्वापर्यालोचनेन मोक्षोपायसमीचीनताविवेचनमित्यादि सर्वमुपपद्यते तन्न नैरात्म्यादिभावना रागादिक्लेशप्रहाणिहेतुः, तस्या मिथ्यारूपत्वात् । यदपि च उक्तम् आत्मनि परमार्थतया विद्यमाने तत्र स्नेहः प्रतत्र्त्तत इति तत्राव चीनावस्थायामेतदिष्यत एव, अन्यथा मोक्षायापि प्रवृत्त्यनुपपत्तेः तथाहि यत एवात्मनि सेहः तत एव प्रेक्षावतामात्मनो दुःखपरिजिहीर्षया सुखमुपादातुं यत्तः, तत्र संसारे सर्वत्रापि दुःखमेव केवलं, तथाहिनरकगतौ कुन्ताप्रभेदकरपत्रशिरः पाटनशूलारोपकुम्भिपाकासिपत्रवनकृत कर्ण नासिकादिच्छेदं कदम्बवालुकापथगमनादिरूपमनेकप्रकारं दुःखमेव निरन्तरं नाक्षिनिमीलनमात्रमपि तत्र सुखं तिर्यग्गतावपि अङ्कुशकशाभिघातप्राजनकतोदनवधबन्धरोगक्षुत्पिपासादिप्रभवमनेकं दुःखं, मनुष्यगतावपि परप्रेषगुप्तिगृह प्रवेशधन बन्धुवियोगानिष्टसम्प्रयोगरोगादिजनितं विविधमनेकं दुःखं, देवगतावपि च परगतविशिष्टद्युतिविभवदर्शनात् मात्सर्यमात्मनि तद्विहीने विषादः च्युतिसमये चातिरमणीयविमानवनवापीस्तूपदेवाङ्गना वियोगजमनिष्टजन्मसन्तापं वाऽयेक्षमाणस्य तप्तायोभाजननिक्षिप्तशफरादप्यधिकतरं दुःखं, यदपि च--मनुष्यगतौ देवगतौ वा किमप्यापातरमणीयं कियत्कालभावि विषयोपभोगसुखं तदपि विषसम्मिश्र भोजनसुखमिव पर्यन्तदारुणत्वादतीव विदुषामनुपादेयम्, तन्न संस्तौ कापि
For Parts Only
~80~
५
१३
org