________________
आगम
(४४)
प्रत
सूत्रांक
||3||
दीप
अनुक्रम
[3]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [ - ]/गाथा ||३||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
असत्यतामक्षुवीरन्, अथ तीर्थान्तरीयसम्मत तीर्थकरोपदिष्टाः पदार्थराशयोऽनुमानप्रमाणेन वाध्यन्ते ततो न ते सत्याः, तदयुक्तम्, अनुमानप्रमाणेनातीन्द्रियज्ञानस्य बाधितुमशक्यत्वात्, आह च- “अतीन्द्रियानसंवेद्यान् पश्यन्त्या - र्येण चक्षुषा । ये भावान् वचनं तेषां नानुमानेन वाध्यते ॥ १ ॥ अथ सम्भवंति जगति प्रज्ञालवोन्मेषदुर्विदग्धाः कुतर्कशास्त्राभ्याससम्पर्कतो वाचालाः तथाविधाद्भुतेन्द्रजाल कौशलवशेन दर्शितदेवागमन भोयान चामरादिविभूतयः कीर्तिपूजादिलन्धुकामाः स्वयमसर्वज्ञा अपि सर्वज्ञा वयमिति ब्रुवाणाः, तत एतावदेव न ज्ञायते यदुत-तेषां सर्वो| तमप्रकर्षरूपमतीन्द्रियज्ञानमभूत्, यदि पुनर्यथोक्तखरूपमतीन्द्रियज्ञानमभविष्यत् तर्हि वचनमपि तेषां नावाधिष्यत, अथ च दृश्यते बाधा ततस्ते तचभूमयो न सर्वज्ञा इति प्रतिपत्तव्यम्, तदेतदर्हत्यपि समानं, न समानम्, अर्हद्वचसि प्रमासंवाददर्शनात् उक्तं च- "जैनेश्वरे हि वचसि प्रमासंवाद इष्यते । प्रमाणबाधा त्वन्येषामतो द्रष्टा जिनेश्वरः ॥ १ ॥" अथ पुरुषमात्रसमुत्थं प्रमाणमतीन्द्रियविषये न साधकं नापि बाधकमविषयत्वात्, समानकक्षतायां हि बाध्यबाधकभावः, तथा चोक्तम्- "समानविपया यस्माद्वाध्यवाधकसंस्थितिः । अतीन्द्रिये च संसारिप्रमाणं न प्रवर्त्तते ॥१॥" ततः कथमुच्यते - अर्हतो वचसि प्रमासंवाददर्शनं प्रमाणवाध्यत्वमन्येपामिति १, तदपि न सम्यक्, यतो न भगवान् केवलमतीन्द्रियमस्मादृशामशक्यपरिच्छेद मेवोपदिशति, यदि पुनः तथाभूतमुपदिशेत् तर्हि न कोऽपि तद्वचनतः प्रवर्तेत, अतीन्द्रियार्थं वचः सर्वेषामेव विद्यते परस्परविरुद्धं च ततः कथं तद्वचनतः प्रेक्षावतां प्रवृत्तिः ?,
For Pernal Use Only
~62~
सर्वज्ञसिद्धिः.
१०
१३
Whelandrary org