________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..................... मूलं [-]/गाथा ||३|| .............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
श्रीमलय- गिरीया नन्दीवृत्तिः
प्रत
सूत्रांक
||३||
दीप अनुक्रम
ततोऽवश्यं परान् प्रतिपादयता भगवता परैः शक्यपरिच्छेदमप्युपदेष्टव्यं, शक्यपरिच्छेदेषु चार्थेषु भगवदुक्तेषु यत्तथाप्रमाणेन संवेदनं तत्तद्विषयं साधकं प्रमाणमुच्यते, विपरीतं तु वाधकं, अस्ति च भगवदुक्तेषु शक्यपरिच्छेदेष्वर्थेषु प्रमासंवादः, तथाहि-घटादयः पदार्था अनेकान्तात्मका उक्ताः, ते च तथैव प्रत्यक्षतोऽनुमानतो वा निश्चीयन्ते, मोक्षोऽपि च परमानन्दरूपशाश्वतिकसौख्यात्यक उक्तः, ततः सोऽपि युक्त्या सङ्गतिमुपपद्यते, यतः संसारप्रतिपक्षभूतो मोक्षः संसारे जन्मजरामरणादिदुःखहेतवो रागादयः ते च निर्मूलमपगता मोक्षावस्थायामिति न मोक्षे दुःखलेशस्थापि सम्भवः, न च निर्मूलमपगता रागादयो भूयोऽपि जायन्ते, ततः तत्सौख्यं शावतिकमुपवण्यते, ननु यदि न तत्र रागादयस्तर्हि न तत्र मत्तकामिनीगाढालिङ्गनपीनस्तनापीडनवदनचुम्बनकराधातादिप्रभवं रागनिवन्धनं सुखं नापि द्वेषनिवन्धनं प्रबलवैरितिरस्कारापादनप्रभवं नापि मोहनिवन्धनमहङ्कारसमुत्थमात्मीयविनीतपुत्रभ्रातृप्रभृतिबन्धुवर्गसहवाससम्भवं च, ततः कथमिव स मोक्षो जन्मिनामुपादेयो भवति !, आह च-“वीतरागस्य न सुखं, योपिदालिङ्गानादिजम् । बीतद्वेषस्य च कुतः, शत्रुसेनाविमईजम् ॥१॥ वीतमोहस्य न मुखमात्मीयाभिनिवेशजम् ।। | ततः किं ताशा तेन, कृत्यं मोक्षेण जन्मिनाम् ? ॥२॥" अपि च-चदादयोऽपि तत्र सर्वथा निवृत्ता इष्यन्ते, ततोअत्यन्तबुभुक्षाक्षामकुक्षेयद् विशिष्टाहारभोजनेन यद्वा ग्रीष्मादौ पिपासापीडितस्य पाटलाकुसुमादिवासितसुगन्धिशीतसलिलपानेनोपजायते सुखं तदपि तत्र दूरतोऽपास्तप्रसरमिति किं कार्य तेन, तदेतदतीवासमीचीनं, यतो यद्यपि
वायरल
[३]
FREE
२५
~634