________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [-]/गाथा ||३|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||३||
दीप अनुक्रम
सर्वदा विद्यमानान्यपि वस्तून्यनन्तानि, ततः संसारं वस्तूनि च क्रमेण विदन् कथमनन्तेनापि कालेन सर्ववेदी भविष्यति', उक्तं च-'क्रमेण वेदनं कथमिति, अत्र प्रतिविधीयते-तत्र यत्तावदुक्तं 'सर्वजगदुद्योतकत्वं भगवतः केन प्रमाणेन प्रतीयते ? इत्यादि तत्रागमप्रमाणादिति ब्रूमः, स चागमः कथञ्चिन्नित्यः प्रवाहतोऽनादित्वात्, तथाहि-यामेव द्वादशाङ्गी कल्पलताकल्पां भगवान् ऋषभखामी पूर्वभवेऽधीतवान् , अधीत्य च पूर्वभवे इहभवे च यथावत्पर्युपास्य फलभूतं केवलज्ञानमवाप्तवान् , तामेवोत्पन्नकेवलज्ञानः सन् शिष्येभ्य उपदिशति, एवं सर्वतीर्थकरेष्वपि । द्रष्टव्यम् , ततोऽसावागमोऽधैरूपापेक्षया नित्यः, तथा च वक्ष्यति-"एसा दुवालसझी न कयावि नासी न कयाविना भवइ न कयावि न भविस्सइ, धुवा नीया सासया अक्खया अन्वया अब्वाबाहा अवढ़िया निचा" इति, अस्मिंश्चागमे यथा संसारी संसारं पर्यटति यथा कर्मणामभिसमागमो यथा च तपःसंयमादिना कर्मणामपगमे केवलाभिव्यक्ति तथा सर्व प्रतिपाद्यते, इति सिद्ध आगमात्सर्वज्ञः । यदप्युक्तम्-'स पौरुषेयो वा' इत्यादि, तत्रार्थतोऽपौरुषेयः, स च न सर्वज्ञप्रकाशितत्वादेव प्रमाणं, किन्तु कथञ्चित् खतोऽपि निश्चिताविपरीतप्रत्ययोत्पादकत्वात् , ततो नेतरेतराश्रयदोषप्रसङ्गः, सर्वज्ञप्रणीतत्वावगमाभावेऽपि निश्चिताविपरीतप्रत्ययोत्पादकतया तस्य प्रामाण्यनिश्चयात्, ततः। सर्वज्ञसिद्धिः, अथैवमागमात् सर्वज्ञः सामान्यतः सिद्धयति न विशेषनिर्देशेन यथाऽयं सर्वज्ञ इति, ततः कथं सर्वज्ञकालेऽपि सर्वज्ञोऽयमिति व्यवहारः१, उच्यते, पृष्टचिन्तितसकलपदार्थप्रकाशनात् , तथाहि-यद् यद् भगवान् पृ
~52~