________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..................... मूलं [-]/गाथा ||३|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||३||
श्रीमलय- च्छयते यच यच खचेतसि प्रष्टा चिन्तयति तत्तत्सर्वं प्रत्ययपूर्वमुपदिशति, ततोऽसौ ज्ञायते यथा सर्वज्ञ इति, तेन य-15) गिरीया |
दुच्यते भट्टेन-'सर्वज्ञोऽसाविति तत् , तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानरहितैर्गम्यते कथम् ॥१॥ ॥२५॥ इति, तदपासं द्रष्टव्यम् , पृष्टचिन्तितसकलपदार्थप्रकाशनेन तस्य सर्वज्ञत्वनिश्चयात् , नन्वे व्यवहारतो निश्चयो न
निश्चयतो, निश्चयतो हि तदा सर्ववेदी विदितो भवति यदा तज्ज्ञेयं सर्च विदित्वा सर्वत्र संवादो गृह्यते, न चै-४
तत्कंतु शक्यम्, अथैकत्र संवाददर्शनादन्यत्रापि संवादी द्रष्टव्यः, एवं तर्हि मायावी बहुजल्पाकः सर्वोऽपि सर्वज्ञः साप्रामोति, तस्याप्येकदेशसंवाददर्शनाद्, आह च-"एकदेशपरिज्ञानं, कस्य नाम न विद्यते ? । न बेकं नास्ति सत्यार्थ,
पुरुषे बहुजल्पिनि ॥१॥" तदयुक्तम् , व्यवहारतोऽपि निश्चयस्य सम्यगनिश्चयत्वात् , वैयाकरणादिनिश्चयवत् , २० तथाहि-वैयाकरणः कतिपयपृष्टशब्दव्याकरणादयं सम्यग्वैयाकरण इति निधीयते, एवं पृष्टचिन्तितार्थप्रकाशनात् स-18 वैज्ञोऽपि, न चैवं मायाविनोऽपि सर्वज्ञत्वप्रसङ्गः, मायाविनि सर्वेषु पृष्टेषु चिन्तितेपु चार्थेषु संवादायोगात, नि-13 पुणेन च प्रतिपत्रा भवितव्यम् , अथ वैयाकरणोऽन्येन वैयाकरणेन सकलब्याकरणशास्त्रार्थसंवादनिश्चयतोऽपि ज्ञातुंग शक्यते, ननु सर्वज्ञोऽप्यन्येन सर्वज्ञेन यथावत् ज्ञातुं शक्य एवेति समानम्, अथ तदानीमन्येन सर्वज्ञेन निश्चयतो [विज्ञायताम् इदानीं तु स कथं ज्ञायते ?, उच्यते, इदानीं तु सम्प्रदायादब्याहतप्रवचनार्थप्रकाशनाच, यदप्यवादीत्-18 'ऋषभः सर्वज्ञो वर्द्धमानखामी सर्वज्ञ इत्यादिरर्थवादः प्रामोतीत्यादि' तदप्यसारम् , आगमे वयं कल्पो यो यः सर्वज्ञ २६
दीप अनुक्रम
~534