________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................................... मूल [-]/गाथा ||३|| .............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
श्रीमलयगिरीया
प्रत
नन्दीत्तिः
सूत्रांक
॥ २४ ॥
||३||
दीप अनुक्रम
पपत्त्या प्रवर्तते, न च कोऽप्यर्थः सर्वज्ञमन्तरेण नोपपद्यते, तत्कथमर्थापत्तिगम्यः ?, तदेवं प्रमाणपञ्चकावृत्तरेभावप्र- सर्वज्ञत्वेमाणमेव सर्वज्ञं क्रोडीकरोति, उक्तं च-"प्रमाणपञ्चकं यत्र, वस्तुरूपे न जायते । वस्त्वसत्तावबोधार्थ, तत्राभावप्रमा- निष्टापत्तिः णता ॥१॥" अपि च-सर्व वस्तु जानाति भगवान् केन प्रमाणेन ?, किं प्रत्यक्षेण उत यथासम्भव सर्वैरेव प्रमाणैः, तत्र न ।
४ा खंडनश्च. तावत्प्रत्यक्षेण, देशकालविप्रकृष्टेषु सूक्ष्मेष्वमूर्तेषु च तस्याप्रवृत्तेः, इन्द्रियाणामगोचरत्वात् , यदि पुनस्तत्रापीन्द्रियं ब्या-18 प्रियेत तर्हि सर्वः सर्वज्ञो भवेत् , अथेन्द्रियप्रत्यक्षादन्यदतीन्द्रियं प्रत्यक्षं तस्सास्ति तेन सच जानातीति मन्येथाः, तदप्ययुक्तम् , तस्यास्तित्वे प्रमाणाभावात् , न च प्रमाणमन्तरेण प्रमेयसिद्धिः, सर्वस्य सर्वेष्टार्थसिद्धिप्रसक्तेः, अथवा अस्तु तदपि तथापि सर्वमेतावदेव जगति वस्तु इति न निश्चयः, न खल्वतीन्द्रियमप्यवधिज्ञानं सर्ववस्तुविषयं सिद्धं, तदपरिच्छिन्नानामपि धर्माधर्मास्तिकायादीनां सम्भवाद्, एवं केवलज्ञानापरिच्छिन्नमपि किमपि वस्तु भविष्यतीत्याश- २० काऽनतिवृत्तेने सर्व विषयं केवलज्ञानं वक्तुं शक्यं, तथा च कुतः सर्वज्ञस्यापि खयमात्मनः सर्वज्ञत्वविनिश्चयः?, अथ यथायथं सर्वरेव प्रमाणः सर्व वस्तु जानातीति पक्षः, नन्वेवं सति य एवागमे कृतपरिश्रमः स एव सर्वज्ञत्वं प्राप्नोति, आगमस्य
M॥२४॥ प्रायः सर्वार्थविषयत्वात् , तथा च कः प्रतिविशेषो बर्द्धमानखाम्यादौ ? येन स एव प्रमाणमिष्यते न जैमिनिरिति । अन्यच्च-यथाऽवस्थितसकलवस्तुवेदी सर्वज्ञ इष्यते, ततोऽशुच्यादिरसानामपि यथावस्थिततया संवेदनादशुच्यादिरसास्वादप्रसङ्गः, आह च-"अशुच्यादिरसाखादप्रसङ्गश्चानिवारितः" किं च-कालतोऽनाद्यनन्तः संसारो, जगति च, २५
RCCESSOX
~514