________________
आगम
(४४)
प्रत
सूत्रांक
||3||
दीप
अनुक्रम
[3]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः )
मूलं [-] /गाथा ||३||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
तथाहि तदप्यनुमानं लिङ्गलिङ्गि सम्बन्धग्रहणतो भवेत्, ततस्तत्रापि लिङ्ग लिङ्गिसम्बन्धग्रहणमनुमानान्तरात्कर्त्तव्यम्, तत्रापि चेयमेव वार्त्तेत्यनवस्था, नाप्यागमतः सर्ववेदनविनिश्चयः, स हि पौरुषेयो वा स्यादपौरुषेयो वा ?, पौरुषेयोऽपि सर्वज्ञकृतो रथ्यापुरुषकृतो वा ?, तत्र न तावत् सर्वज्ञकृतः, सर्वज्ञासिद्धी सर्वज्ञकृतत्वस्यैवाविनिश्चयात्, अपि च-एवमभ्युपगमे सतीतरेतराश्रयदोषप्रसङ्गः तथाहि सर्वज्ञसिद्धौ तत्कृतागमसिद्धिः, तत्कृतागमसिद्धौ च सर्वज्ञसिद्धिः, अथ | रथ्यापुरुषप्रणीत इति पक्षस्तर्हि न स प्रमाणमुन्मत्तकप्रणीतशाखवत्, अप्रमाणाच तस्मान्न सुनिश्चितसर्वज्ञसिद्धिः, अ प्रमाणात्प्रमेयासिद्धेः, अन्यथा प्रमाणपर्येषणं विशीर्येत, अथापौरुषेय इति पक्षस्तर्हि ऋषभः सर्वज्ञो वर्द्धमानखामी | सर्वज्ञ इत्यादिरर्थवादः प्राप्नोति, ऋषभाद्यभावेऽपि भावात् तथाहि सर्व्वकल्पस्थायी आगमः, ऋषभादयस्त्वधुनातनकल्पवर्त्तिनः, तत ऋषभाद्यभावेऽपि पूर्व्वमप्यस्यागमस्यैवमेव भावात्कथमेतेषामृषभादीनामभिधानं तत्र परमार्थसत् ?, तस्मादर्थवाद एपः, न सर्व्वज्ञ प्रतिपादनमिति । अपि च-यद्य पौरुषेयागमाभ्युपगमस्तर्हि किमिदानीं सर्वज्ञेन ?, आगमादेव धर्माधर्मादिव्यवस्थासिद्धेः, तस्मात् नागमगम्यः सर्ववेदी, नाप्युपमानगम्यः, तस्य प्रत्यक्षपूर्वकत्वात्, तथाहि--प्रत्यक्षप्रसिद्धगोपिण्डस्य यथा गौः तथा गवय इत्यागमाहितसंस्कारस्याटव्यां पर्यटतो गवयदर्शनानन्तरं तन्नामप्रतिपत्तिरुपमानं प्रमाणं वर्ण्यते, न चैकोऽपि सर्वज्ञः प्रत्यक्षसिद्धो येन तत्सादृश्यावष्टम्भेनान्यस्य विवक्षितपुरुपस्योपमानप्रमाणतः सर्वज्ञ इति प्रतीतिर्भवेत्, नाप्यर्थापत्तिगम्यः, सा हि प्रत्यक्षादिप्रमाण गोचरीकृतार्थान्यथानु
For Parts Only
~50~
पौरुषेयापौरुषेयत्वविचार.
५.
१०
१३