________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम [१४०]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [ ४७ ] / गाथा ||८९... ||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
किरणाग्रतः स्थातुम् ? ॥ १ ॥" तत इत्थम्भूतो ज्ञानी विवेकपूतात्मा परहितकरणैकरसिको वादमपि परेषामुपकाराथेमाधत्ते, न यथाकथञ्चित्, तमपि च वादं वादिनरपतिपरीक्षकेषु निपुणबुद्धिषु मध्यस्थेषु सत्सु विधत्ते, नान्येषु, तथा तीर्थकरगणधरैरनुज्ञानात् उक्तं च- "वादोऽवि वाइनर व इपरिच्छगजणेसु निउणबुद्धीसुं । मज्झत्थेसु य विहिणा उस्सग्गेणं अणुण्णाओ ॥ १ ॥ " तत एवं स्थिते कथं नु नाम चित्तकालुष्यभायो ? यद्वशात् तीव्र तीव्रतर कर्मबन्धयोगतो दीर्घदीर्घतरसंसारप्रवृत्तिः सम्भवेत्, केवलं वादिनरपतिपरीक्षकाणामज्ञानापगमतः सम्यग्ज्ञानोन्मीलनं जायते, तथा च महदुपकारि ज्ञानमिति तदेव श्रेयः । यत्पुनरुच्यते- 'तीव्राध्यवसायनिष्पन्नः कर्मबन्धो दारुणविपाको भ वती'ति तदभ्युपगम्यते एव, न च तीनोऽध्यवसायो ज्ञाननिबन्धनः, अज्ञानिनोऽपि तस्य दर्शनात्, केवलज्ञाने सति यदि कथञ्चित्कर्म्मदोपतोऽकार्येऽपि प्रवृत्तिरुपजायते तथापि ज्ञानवशतः प्रतिक्षणं संवेगभावतो न तीत्रः परिणामो भवति, तथाहि यथा कश्चित्पुरुषो राजादिदुष्टनियोगतो विपमिश्रमन्नं जानानोऽपि भयभीतमानसो भुझे तथा सम्यग्ज्ञान्यपि कथञ्चित्कर्मदोषतोऽकार्यमाचरन्नपि संसारदुःखभयभीतमानसः समाचरति, न निःशङ्कं संसारभयभीतता च संवेग उच्यते, ततः संवेगवशान्न तीव्रः परिणामो भवति, उक्तं च- "जांणतो सविसरणं पवत्तमाणोऽवि बीहए जह उ । न उ इयरो तह नाणी पवत्तमाणोऽवि संविग्गो ॥ १ ॥ जं संवेगपहाणो अचंतसुहो य १ वादोऽपि वादिनरपतिपरीक्षकजनेषु निपुणवुद्धिषु मध्यस्थेषु च विधिनोत्सवेंग अनुज्ञातः ॥ १ ॥ २ जानानः सवयम प्रवर्तमानोऽपि विमेति यथा तु न त्वितरः तथा ज्ञानी प्रवर्तमानोऽपि संविप्रः ॥ १ ॥ यत् संवेगप्रधान अन्तशुभञ्च भवति परिणामः । पापनिवृत्तिव पुरा नेदमज्ञानिनामुभयम् ॥ २ ॥
Jan Education International
For Para Use Only
~ 454 ~
अज्ञानवाद्यधिकारः
१०
१२
(Sar