SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [ ४७ ] दीप अनुक्रम [१४०] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [ ४७ ] / गाथा ||८९... || मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः तत्सर्वं परमार्थतोऽसत् प्राप्नोति, ततश्चैवं स्थिते यदेतदुच्यते - ' प्रमाणतोऽधिगम्य संसारनेर्गुण्यं तद्विमुखया प्रज्ञया तदुच्छेदाय प्रवृत्ति' रित्यादि तदेतदाकाशकुसुमसौरभवर्णनोपमानमवसेयं, अद्वैतरूपे हि तत्ये कुतो नरकादिभवभ्रमणरूपः संसारो ? यन्नैर्गुण्यमवगम्य तदुच्छेदाय प्रवृत्तिरुपपद्यते, यदप्युच्यते- पुरुषमात्रमेवाद्वैतं तत्त्वं यत्तु संसारनैर्गुण्यं भावभेददर्शनं च तत्सर्वदा सर्वेषामविगामप्रतिपत्तावपि चित्रे निम्नोश्नतमे ददर्शनमिव श्रान्तमवसेयमिति, तदप्यचारु, एतद्विपयवास्तवप्रमाणाभावात्, तथाहि -नाद्वैताभ्युपगमे किञ्चिदद्वैतग्राहकं ततः पृथग्भूतं प्रमाणमस्ति, द्वैतत्वप्रस केः, न च प्रमाणमन्तरेण निष्प्रतिपक्षा तत्त्वव्यवस्था भवति, मा प्रापत्सर्वस्य सर्वेष्टार्थसिद्धिप्रसङ्गः, तथा भ्रान्तिरपि प्र| माणभूताद्वैताद् भिन्नाऽभ्युपगन्तव्या, अन्यथा प्रमाणभूतमद्वैतमप्रमाणमेव भवेत्, तदव्यतिरेकात्, तत्स्वरूपवत्, तथा च कुतस्तत्त्वव्यवस्था ?, भिन्नायां च भ्रान्तावभ्युपगम्यमानायां द्वैतं प्रसक्तमित्यद्वैत हानिः अपि च-यदीदं सम्भा भः कुम्भाम्भोरुहादिभाव मेददर्शनं भ्रान्तमुच्यते तर्हि नियमात्तदपि कचित्सत्यमवगन्तव्यं, अभ्रान्तदर्शनमन्तरेण श्रान्तेरयोगात्, न खलु येन पूर्वमासीविषो न दृष्टस्तस्य रज्ज्यामासीविषभ्रान्तिरुपजायते, यदुकं - "मारटपूर्वसर्वस्य, रजयां सर्पमतिः कचित् । ततः पूर्वानुसारित्वाद्धांन्तिरभ्रान्तिपूर्विका ॥ १ ॥” तत एवमप्यव्याहतो भेदः, अन्यच'पुरुषाद्वैतरूपं तत्त्वमवश्यं परसे निवेदनीयं नात्मने, आत्मनो व्यामोहाभावात्, बिमोहश्चेदद्वैतप्रतिपत्तिरेव न भवेत्, अथोच्येत-यत एव व्यामोहोत एव तन्निवृस्वर्थमात्मनोऽद्वैतप्रतिपत्तिरास्थेया, तदयुक्तम्, एवं सत्यद्वैतप्रति For Parts Only ~446~ अज्ञानवाद्यघिकारः ५. १० १३ wor
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy