________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [४७]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
श्रीमलय- नन्दीवृत्तिः ॥२२२॥
सूत्रांक [४७]]
दीप अनुक्रम [१४०]
पत्त्याधानेनात्मनो व्यामोहे निवर्त्यमानेऽवश्यं पूर्वरूपत्यागोऽपररूपस्य चाव्यामूढतालक्षणस्योत्पत्तिरित्यद्वैतप्रतिज्ञा-अज्ञानवाद्यहानिः, परस्मै च प्रतिपादयनियमतः परमभ्युपगच्छेत् , परं चाभ्युपगच्छन् तस्मै चाद्वैतरूपं तत्त्वं निवेदयन् पिता मे धिकारः कुमारब्रह्मचारीत्यादि वदन्निव कथं नोन्मत्तः १, खपराभ्युपगमेनाद्वैताचसो बाधनादिति यत्किञ्चिदेतत् ॥ यदपि च नियतिवादिन उक्तवन्तो-नियतिर्नाम तत्त्वान्तरमस्तीति,तदपि ताङ्यमानाऽतिजीर्णघट इव विचारताडनमसहमान शतशो विशरारुभावमाभजते, तथाहि-तन्नियतिरूपं नाम तत्त्वान्तरं भावरूपं वा स्यादभावरूपं वा ?, यदि भावरूपं तर्हि किमेकरूपमनेकरूपं वा ?, यद्यकरूपं ततस्तदपि नित्यमनित्यं वा?, यदि निसं कथं भावानां हेतुः?, नित्यस्य कारणत्वायोगात् , तथाहि-नित्यमाकालमेकरूपमुपवयेते, अप्रच्युतानुत्पन्नस्थिरैकखभावतया नित्यत्वस्य व्यावण्णनात् , ततो यदि तेन रूपेण कार्याणि जनयति तर्हि सर्वदा तेन रूपेण जनयेत् , विशेषाभावात् , न च सर्वदा तेन रूपेण जनयति, कचित्कदाचित्तस्य भावस्य दर्शनात् , अविच-यानि द्वितीयादिषु क्षणेषु कर्तव्यानि कार्याणि तान्यपि प्रथमसमय एवोत्पादयेत् , तत्कारणखभावस्य तदानीमपि विद्यमानत्वात् , मा वा द्वितीयादिष्वपि ।
२२२॥ क्षणेषु, विशेषाभावात् , विशेषे वा बलादनित्यत्वं, 'अतादवस्थ्यमनित्यतां ब्रूम' इति वचनप्राण्यात् , अथाविशिष्टमपि नित्यं तं तं सहकारिणमपेक्ष्य कार्य विधत्ते, सहकारिणश्च प्रतिनियतदेशकालभाविनः, ततः सहकारिभाषाभावाभ्यां कार्यस्य क्रम इति, तदप्यसमीचीन, यतः सहकारिणोऽपि नियतिसम्पाद्याः, निपतिश्च प्रथमक्षणेऽपि त
२५
~447~