________________
आगम
(४४)
प्रत
सूत्रांक
[ ४७ ]
दीप
अनुक्रम
[१४०]
श्रीमलय
गिरीया
नन्दीष्वृत्तिः
॥२१८॥
“नन्दी” - चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [ ४७ ] / गाथा ||८९... ||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
क्रोशन्तीति, तदेतदपि बालिशजल्पितम्, इतरेतराश्रयदोषप्रसङ्गात्, तथाहि सहचारिणां भरतादीनां पूर्वादित्वं काॐ लगत पूर्वादित्वयोगात् कालस्य च पूर्वादित्वं सहचारिभरतादिगतपूर्वादित्वयोगतः, तत एकासिद्धावन्यतरस्याप्यसिद्धिः, उक्तं च “एकस्वव्यापितायां हि, पूर्वादित्वं कथं भवेत् । सहचारिवशात्तचेदन्योऽन्याश्रयताऽऽगमः ॥ १ ॥ सहचारिणां हि पूर्वत्वं, पूर्वकालसमागमात् । कालस्य पूर्वादित्वं च, सहचार्यवियोगतः ॥ २॥ प्रागसिद्धावेकस्य कथमन्यस्य सिद्धिरिति तन्नायं पक्षः श्रेयान्, अथ द्वितीयः पक्षः, सोऽप्ययुक्तो, यतः समयादिरूपे परिणामिनि कालेऽविशिष्टेऽपि फलवैचित्रयमुपलभ्यते, तथाहि - समकालमा रम्यमाणाऽपि मुद्रपक्तिरविकला कस्यचिद् दृश्यते अपरस्य तु कालान्तरेऽपि न, तथा समकालमेकस्मिन्नेव राजनि सेव्यमाने सेवकस्यैकस्य फलमचिराद् भवति अपरस्य तु कालान्तरेऽपि न, तथा समकालमपि क्रियमाणे कृष्यादिकर्म्मण्येकस्य परिपूर्णा धान्यसम्पदुपजायते अन्यस्य तु खण्डस्फुटिता न वा किञ्चिदपि ततो यदि काल एव केवलः कारणं भवेत् तर्हि सर्वेषामपि सममेव मुद्द्रवत्त्वादि फलं भवेत् न च भवति तस्मान्न कालमात्रकृतं विश्ववैचित्र्यं, किन्तु कालादिसामग्रीसापेक्षं तत्तत्कर्म्मनिबन्धनमिति स्थितं ॥ यदपि |चेश्वरवादिनो ब्रुवते - 'ईश्वरकृतं जगदिति तदप्यसमीचीनं, ईश्वरग्राहकप्रमाणाभावात्, अचास्ति तद्वाहकं प्रमाणमनुमानं, तथाहि--यत्स्थित्वा स्थित्वाऽभिमतफलसम्पादनाय प्रवर्त्तते तद्बुद्धिमत्कारणाधिष्ठितं यथा वास्यादि द्वैधी- ४२५ करणादौ, प्रवर्त्तते च स्थित्वा स्थित्वा सकलमपि विश्वं स्वफलसाधनायेति, न खलु वास्यादयः खयमेव प्रवर्तन्ते, तेषामचे- ८
Education Internationa
For Para Lise Only
~439~
अज्ञानवाद्यविकारः
२०
॥२१८॥