________________
आगम
(४४)
“नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [४७]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [४७]]
तनत्वात् , खभावत एव चेत्प्रवर्त्तन्ते तर्हि सदैव तेषां प्रवर्तनं भवेत् , न च भवति, तस्मादवश्यं स्थित्वा खित्वा अज्ञानवाद्यप्रवर्त्तने केनचित्प्रेक्षावता प्रवर्तकेन भवितव्यं, सकलस्यापि च जगतः स्थित्वा २ फलं साधयतः प्रवर्तक ईश्वर एवो-18|धिकार: |पपद्यते, नान्य इतीश्वरसिद्धिः, तथाऽपरमनुमान-यत्पारिमण्डल्यादिलक्षणसन्निवेशविशेषभाक् तवेतनावत्कृतं, यथा घटादि, पारिमण्डल्यादिलक्षणसन्निवेशविशेषमाक् च भूभूधरादिकमिति, तदेतदयुक्तं, सिद्धसाधनेन पक्षस्व प्रसिद्धसम्बन्धत्वात् , तथाहि-सकलमपीदं विश्ववैचित्र्यं वयं कर्मनिबन्धनमिच्छामो, यतोऽमी वैतात्यहिमवदादयः पर्वता भरतैरावतविदेहान्तरद्वीपादीनि क्षेत्राणि तथा तथा प्राणिनां सुखदुःखादिहेतुतया यत्परिणमन्ते तत्र तथापरिणमने तत्तन्निवासिनामेव तेषां जन्तूनां कर्म कारणमवसेयं, नान्यत्, तथा च दृश्यते एव पुण्यवति राज्यमनुशासति भूपती तत्कर्मप्रभावतः सुभिक्षादयः प्रवर्त्तमानाः, कर्म च जीवाश्रितं, जीवाश्च बुद्धिमन्तश्चेतनावत्त्वात् , ततो बुद्धिमत्कारणाधिष्ठितत्वे चेतनावत्कृतत्वे च साध्यमाने सिद्धसाधनं, अथ बुद्धिमान चेतनावान् वा विशिष्ट एवेश्वरः कश्चित्साध्यते तेन न सिद्धसाधनं, तर्हि दृष्टान्तस्य साध्यविकलता, वास्यादौ च घटादौ चेश्वरस्याधिष्ठायकत्वेन कारणत्वेन वा व्याप्रियमाणस्थानुपलभ्यमानत्वादू, वार्द्धकिकुम्भकारादीनामेव तत्रान्वयतो व्यतिरेकतो वा व्याप्रियमाणानां निश्चीयमानत्वात् , अथ वार्धक्यादयोऽपि ईश्वरप्रेरिता एव तत्र २ कर्मणि प्रवर्तन्ते न खतः ततो न दृष्टान्तस्य साध्यविफलता, नन्वेवं तर्हि ईश्वरोऽप्यन्येनेश्वरेण प्रेरितः खकर्मणि प्रवर्तते,न खतो.विशेषाभावात् ,सोऽप्यन्येनेश्वरेण प्रेरित इति विकाल
दीप अनुक्रम [१४०]
RAKAASAALS
SARETantramatara
~440~