________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [४७]/गाथा ||८१...|| ..... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक [४७]]
धिकानां पाखण्डिकशतानां प्रतिक्षेपः सूत्रकृताङ्गे शेषेषु च प्रकरणेषु पूर्षाचार्यैरनेकधा युक्तिभिः कृतस्ततो ययमपि अज्ञानवाद्यस्थानाशून्यार्थं पूर्वाचार्यकृतं तेषां प्रतिक्षेपं सझेपतो दर्शयामः-तत्र ये कालवादिनः सर्व कालकृतं मन्यन्ते तान् | धिकारः प्रति ब्रूमः-कालो नाम किमेकखभावो नित्यो व्यापी? किंवा समयादिरूपतया परिणामी?, तत्र यद्याद्यः पक्षः तदयुक्तं, तथाभूतकालग्राहकप्रमाणाभावात् , न खलु तथाभूतं कालं प्रत्यक्षेणोपलभामहे, नाप्यनुमानेन, तदविनाभाविलिङ्गाभावात् , अथ कथं तदविनाभाविलिङ्गाभाषो? यावता दृश्यते भरतरामादिषु पूर्यापरव्यवहारः, स च न वस्तुस्वरूपमात्रनिमित्तो, वर्तमाने च काले वस्तुस्वरूपस्य विद्यमानतया तथाव्यवहारप्रवृत्तिप्रसक्तेः, ततो यन्निमित्तोऽयं भरतरामादिषु पूर्वोपरग्यवहारः स काल इति, तथाहि-पूर्वकालयोगी पूर्वो भरतचक्रवर्ती अपरकालयोगी चापरोरामादिरिति, ननु यदि भरतरामादिषु पूर्वापरकालयोगतः पूर्वापरव्यवहारस्तर्हि कालस्यैव कथं स्वयं पूर्वापरव्यवहारः, तदन्यकालयोगादिति चेत् , न, तत्रापि स एव प्रसङ्ग इत्यनवस्था, अथ मा भूदेष दोष इति तस्य खयमेव पूर्वत्वमपरत्वं चेष्यते नान्यकालयोगादिति, तथा चोक्तम्-"पूर्वकालादियोगी यः, स पूर्वाद्यपदेशभाक् । पूर्वापरत्वं तस्यापि, स्वरूपादेव |नान्यतः ॥ १॥" तदप्याकण्ठपीतासवप्रलापदेशीयं, यत एकान्तेनैको व्यापी नित्यः कालोऽभ्युपगम्यते, ततः कथं तस्य पूर्णादित्यसम्भवः, अथ सहचारिसम्पर्कपशादेकस्यापि तथात्वकल्पना, तथाहि-सहचारिणो भरतादयः पूर्वोः । अपरे च रामादयोऽपरास्ततस्तत्सम्पर्कवशात्कालस्यापि पूर्वापरव्यपदेशः, भवति च सहचारिणो व्यपदेशो यथा मचाः
दीप अनुक्रम [१४०]
~ 438~