________________
आगम
(४४)
“नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................ मूलं [४७]/गाथा ||८१...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
श्रीमलय- गिरीया | नन्दीवृत्तिः ॥२१६॥
१५
सूत्रांक [४७]]
ततो यदि शेषा अपि सुगतादयः सर्वज्ञा अभविष्यन् तर्हि तेषामपि देवाः पूजामकरिष्यन् न च कृतवन्तस्तस्मान्न ते अज्ञानवाचसर्वज्ञाः, तदेतत्वदर्शनानुरागतरलितमनस्कतासूचकं, यतो वर्द्धमानखामिनो दिवः समागत्य देवास्तथा पूजां कृतवन्त |
धिकारः इत्येतदपि कथमवसीयते?, भगवतश्चिरातीतत्वेनेदानीं तद्भावग्राहकप्रमाणाभावात् , सम्प्रदायादवसीयते इति चेत् ननु सोऽपि सम्प्रदायो न धूर्तपुरुषप्रवर्तितः किन्तु सत्यपुरुषप्रवर्तित एवेति कथमवगन्तव्यं ?, तद्राहकप्रमाणाभावात् , न चाप्रमाणकं वयं प्रतिपत्तुं क्षमाः, मा प्रापदप्रेक्षावत्ताप्रसङ्गः, अन्यच्च-मायाविनः खयमसर्वज्ञा अपि जगति स्वस्थ सर्वज्ञभावं प्रचिकटयिषवस्तथाविधेन्द्रजालवशादर्शयन्ति देवानितस्ततः सञ्चरतः खस्य च पूजादिकं कुर्वतः, ततो देवागमदर्शनादपि कथं तस्य सर्वज्ञत्वनिश्चयः ?, तथा चाह भावक एव स्तुतिकारः समन्तभद्रः-'देवागमनभोयान-131 चामरादिविभूतयः। मायाविष्वपि दृश्यन्ते, नातस्त्वमसि नो महान् ॥ १॥" भवतु वा बर्द्धमानखामी सर्वज्ञः त-1 थापि तत्सत्कोऽयमाचारादिक उपदेशो न पुनः केनापि धूर्त्तन खयं विरचय्य प्रवर्तित इति कथमवसेयं ?, अतीन्द्रियत्वेनेतद्विषये प्रमाणाभावात् , अथवा भवत्वेषोऽपि निश्चयो यथाऽयमाचारादिक उपदेशो वर्द्धमानखामिन इति, तथापि तस्योपदेशस्यायमर्थो नान्य इति न शक्यः प्रत्येतुं, नानार्थी हि शब्दा लोके प्रवर्तन्ते, तथादर्शनात् , त- ॥२१॥ |तोऽन्यथाऽप्यर्थसम्भावनायां कथं विवक्षितार्थनियमनिश्चयः?, अथ मन्येथास्तदात्वे तत एव सर्वज्ञात् साक्षाच्छ्वणतो गौतमादेरर्थनियमनिश्चयोऽभूत् तत आचार्यपरम्परयेदानीमपि भवतीति, तदप्ययुक्तं, यतो नाम गातमादिरपि
२
दीप अनुक्रम [१४०]
२५
Baitaram.org
~ 435~