________________
आगम
(४४)
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
INIधिकार:
सूत्रांक [४७]]
लमतिष्कसुधापकधवलितभित्तिगतरजोमल इव स कर्मसङ्गः खत एव शुभाध्यवसायपवनविक्षोभितोऽपयाति, म- अक्रियाऽनसोऽभिनिवेशाभावश्चाज्ञानाभ्युपगमे समुपजायते, ज्ञाने सत्यभिनिवेशसम्भवात् , तस्मादज्ञानमेव मुमुक्षुणा मुक्ति- ज्ञानवायपथप्रवृत्तेनाभ्युपगन्तव्यं न ज्ञानमिति, अन्यच-भवेधुक्तो ज्ञानस्याभ्युपगमो यदि ज्ञानस्य निश्चयः कर्तुं पार्येत या-81 वता स एव न पार्यते, तथाहि-सर्वेऽपि दर्शनिनः परस्परं भिन्नमेव ज्ञानं प्रतिपन्नाः ततो न निश्चयः कर्तुं शक्यतेकिमि जान सम्यग् नेदमिति ?, उक्तं च-"संवे य मिहो भिन्नं नाणं इह नाणिणो जओ विति । तीरइ न तो काउंविणिच्छओ एवमेयंति ॥१॥" अथोच्येत-इह यत्सकलवस्तुस्त्रोमसाक्षात्कारिभगवदुपदेशादुपजायते ज्ञान | तत्सम्यग नेतरत् , असर्वज्ञमूलत्वादिति, सत्यमेतत्, किन्तु स एव सकलवस्तुस्तोमसाक्षात्कारीति कथं ज्ञायते !, तद्बाइकप्रमाणाभावात् ,अपिच-सुगतादयोऽपि सौगतादिभिः सकलवस्तुस्तोमसाक्षात्कारिण इभ्यन्ते, तर्कि सुगतादिः | सकलवस्तुस्तोमसाक्षात्कारीति प्रतिपद्यतामस्माभिः किंवा भगवद्वर्द्धमानखामीति तदवस्थ एव निश्चयाभावः?, सादेतत्-किमत्र संशयेन ?, यस्य पादारविन्दयुगलं प्रणिणंसवो दिवौकसः परस्परमहमहमिकया विशिष्टविशिष्टतरविभूतिघुतिपरिकलिताः शतसहस्रसभेन विमाननिवहेन सकलमपि नभोमण्डलमाच्छादयन्तो महीमवतीर्य पूजादिकमातन्वन्ति स्म स भगवान् बर्द्धमानखामी सर्वज्ञो न शेषाः सुगतादयः, मनुष्या हि मूढमनस्का अपि सम्भाव्यन्ते न देवाः, १ स च मियो मिनं ज्ञान मिह ज्ञानिनो यतो ध्रुवते । शक्यते न ततः कर्तुं विनिधय एवमेतदिति ॥1॥
दीप अनुक्रम [१४०]
XAKSOCIRCCRA
~ 434~