________________
आगम
(४४)
प्रत
सूत्रांक
[४५-४६]
दीप अनुक्रम [१३८
-१३९]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः )
मूलं [ ४५-४६ ] / गाथा ||८१...||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
मतिमेधादिगुणानां तत्तद्धर्म्मविशिष्टानन्तधर्मात्मक वस्तुप्रतिपत्तिभावात् एतच टीकाकृतो व्याख्यानं, चूर्णिकृत-आचारापुनराह - अभिधानाभिधेयवशतो गमा भवन्ति, ते चानन्ताः, अनेन च प्रकारेण ते वेदितव्याः, तद्यथा - 'सुयं मे नाधिकारः सू. ४६ आउसंतणं भगवया एवमकखाय' मिति, इदं च सुधर्मस्वामी जम्बूखामिनं प्रत्याह, तत्रायमर्थः श्रुतं मया हे आयुष्मन् ! तेन भगवता वर्द्धमानखामिना एवमाख्यातं, अथवा श्रुतं मया 'आयुष्मदन्ते' आयुष्मतो भगवतो वर्द्धमानखामिनोऽन्ते - समीपे 'ण' मिति वाक्यालङ्कारे, तथा च भगवता एवमाख्यातं, अथवा श्रुतं मयाऽऽयुष्मता, अथवा श्रुतं मया भगवत्पादारविन्दयुगलमामृशता, अथवा श्रुतं मया गुरुकुलवासमावसता, अथवा श्रुतं मया हे आयुष्मन् ! 'ते' ति प्रथमार्थे तृतीया तद्भगवता एवमाख्यातं, अथवा श्रुतं मयाऽऽयुष्मन् ! 'ते णं'ति तदा भगवता एवमाख्यातं, अथवा श्रुतं मया हे आयुष्मन् ! 'ते णं'ति षड्जीवनिकायविषये तत्र वा विवक्षिते समवसरणे स्थितेन भगवता एचमाख्यातं, अथवा श्रुतं मम हे आयुष्मन् ! वर्त्तते, यतस्तेन भगवता एवमाख्यातं, एवमादयस्तं तमर्थमधिकृत्य गमा भवन्ति, अभिधानवशतः पुनरेवं गमाः-- "सुयं मे आउ आउ सुयं मे मे सुयं आउस" मित्येवमर्थभेदेन तथा २ पदानां संयोजनतोऽभिधानगमा भवन्ति, एवमादयः किल गमाः अनन्ता भवन्ति, तथा अनन्ताः पर्यायाः, ते च खपरभेदभिन्ना अक्षरार्थगोचरा वेदितव्याः, तथा परीताः - परिमितास्त्रसा - द्वीन्द्रियादयः, अनन्ताः स्थावराः - वनस्पतिकायादयः, 'सासयकडनिबद्धनिकाइय'त्ति शाश्वता-धर्मास्तिकायादयः कृताः- प्रयोगवित्र साजन्या घटसन्ध्याभ्ररागादयः,
For Parts Only
~426~
५
१०
१३
wor