________________
आगम
(४४)
प्रत
सूत्रांक
[४५-४६]
दीप
अनुक्रम
[१३८
-१३९]
श्रीमलयनिरीया नन्दीवृत्तिः
॥२११ ॥
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [ ४५-४६ ] / गाथा || ८१... ||
मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[ ४४], चूलिका सूत्र -[१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
एवमेते सर्वेऽपि पिण्डिताः पञ्चाशीतिर्भवन्ति, अत्र सङ्ग्रहगाथा - " सत्त (१) य छ २ चउ (३) चउरो (४) य छ (५) पंच (६) अट्ठेय (७) सप्त (८) चउरो (९) य । एक्कार (१०) त्तिय (११) तिय (१२) दो (१३) तिय दो (१४-१५-१६) सत्ते (२३) को (क) (२४) एको (२५) य ॥१॥ एवं समुद्देशनकाला अपि पञ्चाशीतिर्भावनीयाः, तथा पदाग्रेण-पदपरिमानाष्टादश पदसहस्राणि, इह यत्रार्थोपलब्धिस्तत्पदं, अत्र पर आह— यदाऽऽचारे द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि पदाग्रेण चाष्टादश पदसहस्राणि तर्हि यद् भणितं "नवयंभचरेमइओ अट्ठारसपयसहस्सिओ बेओ" इति तद्विरुध्यते, अत्र हि नवत्रह्मचर्याध्ययनमात्र एवाष्टादशपदसहस्रप्रमाण आचार उक्तः, अस्मिंस्त्वध्ययने श्रुतस्कन्धद्वयात्मकः पञ्चविंशत्यध्ययन रूपोऽष्टादशपदसहस्रप्रमाण इति, ततः कथं न परस्परविरोधः १, तदयुक्तं, अभिप्रायापरिज्ञानात्, इह द्वौ श्रुतस्कन्धौ पञ्चविंशतिरध्ययनानि एतत्समग्रस्याचारस्य परिमाणमुक्तं, अष्टादशः पदसहस्राणि पुनः प्रथमथुतस्कन्धस्य नवब्रह्मचर्याध्ययनस्य विचित्रार्थनिवद्धानि हि सूत्राणि भवन्ति, अत एव चैषां सम्यगर्थावगमो गुरूपदेशतो भवति, नान्यथा, तथा चाह चूर्णिकृत् — “दो सुयखंधा पणवीसं अज्झयणाणि एवं आयरग्गसहियस्स आयारस्स पमाणं भणियं, अट्ठारसपय सहस्सा पुण पढमसुयक्खंधस्स नवत्रं भचेरमइयस्स पमाणं, विचित्तअत्थनिबद्धाणि य सुचाणि गुरुवएसओ सिं अत्थो जाणिय वो "त्ति । तथा सङ्ख्येयानि अक्षराणि, पदानां सङ्ख्धेयत्वात्, तथा 'अणता गमा' इति इद्द गमाः - अर्थगमा गृहयन्ते, अर्थगमा नाम अर्थपरिच्छेदाः, ते चानन्ताः, एकस्मादेव सूत्रादतिशाथि
For Para Use Only
~ 425~
आचाराङ्गाधिकारः
सू. ४६
२०
॥२११॥ २५
ayor