________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [-]/गाथा ||२|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
वचनस्यापारुषेयत्व
प्रत
खंडनम्.
सूत्रांक
||२||
दीप अनुक्रम
श्रीमलय-दवात् खयं शब्दा धनन्ति, ततो वेदस्य प्रथमोऽध्येता कतैव वेदितव्यः, अपि च-यद्वस्तु यद्धेतुकमन्वयव्यतिरेकाभ्यां
प्रसिद्ध तजातीयमन्यदप्यदृष्टहेतुकं ततो हेतोर्भवतीति सम्प्रतीयते, यथेन्धनादेको वह्निदृष्टः ततः तत्समानखभावोऽप-
रोऽप्यदृष्टहेतुकः तत्समानहेतुकः सम्प्रतीयते, लौकिकेन च शब्देन समानधर्मा सर्वोऽपि वैदिकः शब्दराशिः ततो | ॥१८॥हलौकिकवद्वैदिकोऽपि शब्दराशिः पौरुषेयः सम्प्रतीयता, स्वादेतद्-वैदिकेषु शब्देषु यद्यपि न पुरुषो हेतुः, तथापि
पौरुषेयाभिमतशब्दसमानाविशिष्टपदवाक्यरचना भविष्यति ततः कथं तत्समानधर्मतामवलोक्य पुरुषहेतुकथा तेषामनुमीयते, तदेतद्वालिशजल्पितं, पदवाक्यरचना हि यदि हेतुमन्तरेणापीप्यते तत आकस्मिकी सा भवेत् , ततश्चाकाशादावपि सा सर्वत्र सम्भवेत् , अहेतुकस्य देशादिनियमायोगात्, न च सा सर्वत्रापि सम्भवति, तस्मात्पुरुष एव तस्या हेतुरित्यवश्यं प्रतिपत्तव्यम् । अन्यच्च-पुरुषस्य रागादिपरीतत्वेन यथावद्वस्तुपरिज्ञानाभावात् तत्प्रणीतं वाक्यमयथार्थमपि सम्भाव्यते इति संशयहेतुः पुरुषोपकीर्णः, स च संशयोऽपौरुषेयत्वाभ्युगमेऽपि वेदवाक्यानां तदवस्थ एव, तथाहि-खयं तावत्पुरुषो वेदस्यार्थ नावबुध्यते, रागादिपरीतत्वात् , नाप्यन्यतः पुरुषान्तरात्, तस्यापि रागादिपरीतत्वेन यथातत्त्वमपरिज्ञानाद्, अथ जैमनिश्चिरतरपूर्वकालभावी पटुप्रज्ञः सम्यग्वेदार्थख परिज्ञाताऽऽसीत् ततः परिज्ञानमभूदिति, न हि सर्वेऽपि पुरुषाः समानप्रज्ञामेधादिगुणा इति वक्तुं शक्यम् , सम्प्रत्यपि प्रतिपुरुषं प्रज्ञादेस्तारतम्यस्य दर्शनात्, ननु स जैमनिः पुरुषो वेदसाथै यथावस्थितमवगच्छति स्मेति कुतो निश्चयः १, प्रमाणेन
COLORSCO
॥१८॥
२५
Moonamura
~ 39~