________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [-]/गाथा ||२|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
| विचार..
सूत्रांक
||२||
दीप अनुक्रम
संवादादिति चेत् नन्वतीन्द्रियेष्वर्थेषु न प्रमाणस्यावतारो, यथा अग्निहोत्रहवनस्य खर्गसाधनत्वे, बहवश्चातीन्द्रिया अग्निहोत्र'
अर्था वेदे व्यावय॑न्ते, तत्कथं तत्र संवादः १, अथ येष्वर्थेष्वस्मादृशां प्रमाणसम्भवः तद्विषये प्रमाणसंवाददर्शनादती-1BI इति वा४/न्द्रियाणामप्यर्थानां स सम्यक् परिज्ञाताऽभ्युपगम्यते, तदप्ययुक्तम् , रागादिकलुषिततया तस्यातीन्द्रियार्थपरिज्ञा-
क्यार्थहनासम्भवादू, अन्यथा सर्वेषामप्यतीन्द्रियार्थप्रदर्शित्वप्रसक्तिस्ततः तत्कृतातीन्द्रियार्थव्याख्या मिध्यैव, अपि च
आगमोऽर्थतः परिज्ञातः सन् प्रेक्षावतामुपयोगविषयो भवति, नापरिज्ञातार्थ शब्दगडमात्रं, ततोऽर्थः प्रधानः, स चेत्पुरुषप्रणीतः किं शब्दमात्रस्यापौरुषेयत्वपरिकल्पनेन ?, निरर्थकत्वात् , तन्नान्यतोऽपि वेदार्थस्य सम्यगवगमः, नापि वेदः खकीयमर्थमुपदेशमन्तरेण स्वयमेव साक्षादुपदर्शयति, ततो वेद स्पेष्टार्थप्रतिपस्युपायाभावाद् 'अग्निहोत्रं जुहुयात्वर्गकाम' इति श्रुतौ यथा वेदप्रामाणिकैरयमर्थः परिकल्प्यते-'घृताद्याहुतिं परिक्षिपेत् स्वर्गकाम' इति,
तथाऽयमप्यर्थः तैः किं न कल्प्यते ?-खादेत्स्वमांसं खर्गकाम इति, नियामकाभावाद, उक्तं च-"वयं रागादि-11 समानार्थ, वेत्ति वेदस्य नान्यतः । न वेदयति वेदोऽपि, वेदार्थस्य कुतो गतिः? ॥१॥ तेनाग्निहोत्रं जुहुयात् |
खर्गकाम इति श्रुतौ । खादेत्खमांसमित्येष, नार्थ इत्यत्र का प्रमा ? ॥२॥" अथ य एव शाब्दो व्यवहारो लोके दिप्रसिद्धः स एव घेदवाक्यार्थनिश्चयनिबन्धनं, न च लोकेऽग्निहोत्रशब्दस्य स्वमांसं वाच्यम् , नापि जुहुयादित्यस्य ।
भक्षणं, तत्कथमयमर्थः परिकल्प्यते ?, तदयुक्तम् , नानार्था हि लोके शब्दा रूढाः, यथा गोशब्दः, अपि च सर्वे |
२]
~ 40~