________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
..................... मूलं [-]/गाथा ||२|| ............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||२||
इदानीन्तनपुरुषवदिति, तदप्ययुक्तम् , अत्रापि हेतोयभिचारात्, तथाहि-भारतादिष्विदानीन्तनपुरुषाणामशक्तावपि । कस्यचित्पुरुषस्य व्यासादेः शक्तिः श्रूयते, एवं वेदविषयेऽपि सम्प्रति पुरुषाणां कर्तुमशक्तावपि कस्यचित्प्राक्तनस्य पुरुषविशेषस्य शक्तिर्भविष्यतीति । अपि च-यथाऽग्निसामान्यस्य ज्वालाप्रभवत्वमरणिनिर्मथनप्रभवत्वं च परस्परमवाध्यवाधकत्वान्न विरुध्यते, को बत्र विरोधः अग्निश्च स्यात् कदाचिदरणिनिर्मथनपूर्वकः कदाचिज्ज्वालान्तरपूर्वकश्च, ततो यथाऽऽद्योऽपि पथिककृतोऽग्निः ज्वालान्तरपूर्वको नारणिनिर्मथनपूर्वकः, पथिकाग्नित्याद्, आद्यानन्तरामिवदित्ययं हेतुळभिचारी, विपक्षे वृत्तिसम्भवात् , तथा वेदाध्ययनमपि विपक्षे वृत्तिसम्भवात् व्यभिचार्येव, तथाहि-वेदाध्ययने स्वयंकरणपूर्वकत्वमध्ययनान्तरपूर्वकत्वं च परस्परमबाध्यबाधकत्वादविरुद्धम् , ततश्च वेदाध्ययनमपि स्यात् किञ्चित्वयंकरणपूर्वकमपीति, यदा त्येवं विशिष्यते-यस्तु तथाविधः स्वयं कृत्वाऽध्येतुमसमर्थः तस्य वेदाध्ययनमध्ययनान्तरपूर्वकमिति, तदा न कश्चिदोषः, यथा यादशोऽग्निालाप्रभयो दृष्टः तादृशः सर्वोऽपि ज्वालाप्रभव इति, अस्तु वा सर्व वेदाध्ययनमध्ययनान्तरपूर्वकं, तथाऽप्येवमनादिता सिद्ध्येद् वेदस्य, नापौरुषेयत्वं, अथात एवानादितामात्रादपौरुषेयत्वसिद्धिरिष्यते तर्हि डिम्भकपांशुक्रीडादेरपि पुरुषव्यवहारस्यापौरुषेयतापत्तिः, तस्यापि पूर्वपूर्वदर्शनप्रवृत्तित्वेनानादित्वात् , अपि च-स्युरपौरुषेया वेदा यदि पुरुषाणामादिः स्याद् वेदाध्ययनं चानादि, तदाप्याद्यपुरुषस्थाध्ययनमध्ययनान्तरपूर्वकं न सिक्ष्यति, अध्यापयतुरभावात्, न च पुरुषस्य ताल्वादिकरणग्रामव्यापाराभा- १३
दीप अनुक्रम
MERadimana
~ 38~