________________
आगम
(४४)
प्रत
सूत्रांक
[४०]
दीप
अनुक्रम [१३३]
श्रीमलयगिरीया
नन्दीवृत्तिः
॥१९१॥
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [४०] / गाथा || ८९... ||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
मेव न भवति यस्मिन्नुदिते विभाति रागगणः । तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम् १ ॥ १ ॥” अन्यस्तु मिध्यादृष्टिरसंज्ञी, तथा चाह - 'असंज्ञिश्रुतस्य' मिध्याश्रुतस्य क्षयोपशमेनासंज्ञीति लभ्यते, 'से तमित्यादि । निगमनं, सोऽयं दृष्टिवादोपदेशेन संज्ञी । तदेवं संज्ञिनस्त्रिभेदत्वात् श्रुतमपि तदुपाधिभेदात् त्रिविधमुपन्यस्तं । अत्राहननु प्रथमं हेतुपदेशेन संज्ञी वक्तुं युज्यते, हेतुपदेशेनाल्प मनोलब्धिसम्पन्नस्यापि द्वीन्द्रियादेः संज्ञित्वेनाभ्युपगतत्वात् तस्य चाविशुद्धतरत्वात् ततः कालिक्युपदेशेन हेतुपदेशसंज्ञापेक्षया कालिक्युपदेशेन संज्ञिनो मनःपर्याप्तियुक्ततया विशुद्धत्वात्, तत्किमर्थमुत्क्रमोपन्यासः १, उच्यते, इह सर्वत्र सूत्रे यत्र कचित् संज्ञी असंज्ञी या परिगृह्यते तत्र सर्वत्रापि प्रायः कालिक्युपदेशेन गृह्यते न हेतुपदेशेन नापि दृष्टिवादोपदेशेन, तत एतत्सम्प्रत्ययार्थ प्रथमं कालिक्युपदेशेन संज्ञिनो ग्रहणं, उक्तं च- "संन्नित्ति असन्नित्ति य सबसुए काढिओवएसेणं । पायं संववहारो कीरह तेणाइओ स कओ ॥ १ ॥" ततोऽनन्तरमप्रधानत्वाद्धेतुपदेशेन संज्ञिनो ग्रहणं, ततः सर्वप्रधानत्वादन्ते दृष्टिवादोपदेशेनेति । 'सेत्त' मित्यादि, तदेतत्संज्ञिश्रुतम् असंज्ञिश्रुतमपि प्रतिपक्षाभिधानादेव प्रतिपादितं तत आह- 'सेत्तं असन्निसुर्य' तदेतदसंज्ञिश्रुतं ॥
से किं तं सम्मसुअं ?, जं इमं अरहंतेहिं भगवंतेहिं उप्पण्णनाणदंसणधरेहिं तेलक्कनिरिक्खि
१ संशीति अक्षीत व सर्व कालवयुपदेशेन प्रायः संव्यवहारः क्रियते तेनादी सहृतः ॥ १ ॥
Education Internation
सम्यकश्रुतस्य वर्णनं एवं तस्य भेदानाम् नामानि
For Parts Only
~385~
सम्यकमिथ्याभूतं
सू. ४१
१५
२०
॥१९१॥ २३