________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [-]/गाथा ||२|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||२||
दीप अनुक्रम
श्रीमलय-15 हानिप्रसङ्गाद् , अथोपलभ्यखभावमपि सहकारिप्रत्ययमपेक्ष्योपलम्भमुपजनयति तेन न सर्वदोपलम्भप्रसङ्गः, तदयुक्तम् , वचनस्यागिरीया एकान्तनित्यस्य सहकार्यपेक्षाया अयोगात् , ततो विशेषप्रतिलम्भलक्षणा हि तस्स तत्रापेक्षा, यदाह धर्मकीर्तिः
पौरुषेयत्वनन्दीवृत्तिः
खंडनम्. वृित्तिः अपेक्षाया विशेषप्रतिलम्भलक्षणत्वादिति, न च नित्यस्य विशेषप्रतिलम्भोऽस्ति, अनित्यत्वापत्तेः, तथाहि-स विशे
|१५ ॥१६॥ षप्रतिलम्भः तस्यात्मभूतः, ततो विशेषे जायमाने स एव पदार्थः तेन रूपेण जातो भवति, प्राक्तनं विशिष्टाव स्थाल
क्षणं रूपं विनष्टमित्यनित्यत्वापत्तिः, अयोध्येत-स-विशेषप्रतिलम्भो न तस्यात्मभूतः किन्तु व्यतिरिक्तः कथमनित्यत्यापत्तिः, यद्येवं तर्हि कथं स तस्य सहकारी ?, न हि तेन सहकारिणा तस्य वचनस्य किमप्युपक्रियते, भिन्नविशेषकरणात् , अथ भिन्नोऽपि विशेषः तस्य सम्बन्धी तेन तत्सम्बन्धिविशेषकरणात् तस्याप्युपकारी द्रष्टव्य इति सहकारी व्यपदिश्यते, ननु विशेषेणापि सह तस्य वचनस्य कः सम्बन्धो?, न तावत्तादात्म्य, भिन्नत्वेनाभ्युपगमात्, नापि तदुत्पत्तिः, विकल्पद्वयानतिकमात्, तथाहि-किं वचनेन विशेषो जन्यते ? उत विशेषेण वचनम् !, तत्र न तावदायः पक्षो, विशेषस्य सहकारिणोऽभावात् , नापि द्वितीयो, वचनस्य नित्यतया कर्तुमशक्यत्वाद् , अथ मा भूद् बचनविशेषयोर्जन्यजनकभावः, आधाराधेयभावो भविष्यति, तदप्यसमीचीनम् , आधाराधेयभावस्यापि परस्परोपकार्योपकारकभावापेक्षत्वात् , तथाहि-बदरं पतनधर्मकं सत् कुण्डेन खानन्तरदेशस्थायितया परिणामि जन्यते, तस्यान्यतोऽभावात् , ततः कथमनयोराधाराधेयभाव ?, अथ तेन विशेषेण वचनस्योपकारः कचिकि-IX
[२]
~35~