________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
...................... मूल [-]/गाथा ||२|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
||२||
सारेण तास्ताः खस्वप्रक्रियाः अपश्चितवन्तः, उक्तं च स्तुतिकारेण-"सुनिश्चितं नः परतत्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्तिसम्पदः। तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिनवाक्यविग्रुषः॥१॥"शाकटायनोऽपि यापनीययतिग्रामाग्रणीः खोपज्ञशब्दानुशासनवृत्तावादी भगवतः स्तुतिमेवमाह-'श्रीवीरममृतं ज्योतिर्नत्वाऽऽदि सर्ववेदसाम्' अत्र च न्यास कृता व्याख्या सर्ववेदसा' सर्वज्ञानानां खपरदर्शनसम्बन्धिसकलशास्त्रानुगतपरिज्ञानानाम् 'आदि प्रभवं प्रथममुत्पत्तिकारणमिति । अत एव चेह श्रुतानामित्यत्र बहुवचनम् , अन्यथैकवचनमेव प्रयुज्यते, प्रायः श्रुतशब्दस्य केवलद्वादशाङ्गमात्रयाचिनः सर्वत्रापि सिद्धान्ते एकवचनान्ततया प्रयोगदर्शनात् , सर्वश्रुतकारणत्वेन च भगवतः स्तुतिप्रतिपादने इदमप्यावेदितं द्रष्टव्यम्-सर्वाण्यपि श्रुतानि पौरुषेयाण्येव, न किमप्यपौरुषेयमस्ति, असम्भवात् , तथाहि-शास्त्रं वचनात्मकं, वचनं ताखोष्टपुटपरिस्पन्दादिरूपपुरुषव्यापारान्वयव्यतिरेकानुविधायि, ततस्तदभावे कथं भवति ?, न खलु पुरुषव्यापारमन्तरेण वचनमाकाशे ध्वनदुपलभ्यते, अपि च-तदपौरुषेयं वचनमकारणत्वान्नित्यमभ्युपगम्यते, 'सदकारणवन्नित्यमिति वचनप्रामाण्यात् , ततश्च अत्र विकल्पयुगलमवतेतीर्यते, तदपौरुषेयं वचः किमुपलभ्यस्वभावमुतानुपलभ्यखभावं?, तत्र यद्यनुपलभ्यखभावं तर्हि तस्य नित्यत्वेनाभ्युपगमात् कदाचिदपि खभावाप्रच्युतेः सर्वदेवोपलम्भाभावप्रसङ्गः, अथोपलम्भखभावं तर्हि सर्वदानुपरमेनोपलभ्येत, अन्यथा तत्खभावता
दीप अनुक्रम
ON
Saintaman
n
al
X
m
arary.org
~34 ~