________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [३१]/गाथा ||७४...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
अवग्रहकाथिकानि सू. ३१
प्रत
सुत्रांक
[३१]
नाशब्दो-रूपादिः इति शब्दखरूपावधारणं विशेषावगमः, ततोऽस्मात् यत्पूर्वमनिर्देश्यसामान्यमात्रग्रहणमेकसामयिक स पारमार्थिकार्थावग्रहः, तत ऊद्दे तु यत्किमिदमिति विमर्शनं सा ईहा, तदनन्तरं तु यच्छब्दखरूपावधारणं शब्दो- |ऽयमिति तदवायज्ञानं, तत्रापि यदा उत्तरधर्मजिज्ञासा भवति-किमयं शब्दः शाङ्खः किं वा शाई: ? इति तदा पाश्चात्य शब्द इति ज्ञानं विशेषावगमापेक्षया सामान्यमात्रालम्बनमित्यवग्रह इत्युपचयंते, स च परमार्थतः सामान्यविशेषरूपालम्बन इति विशेषसामान्यार्थावग्रह इत्युच्यते, इदमेव च शब्द इति ज्ञानमवलम्च्य किमयं शासकिं वा शाः इति ज्ञानमुदयते, ततो विशेषसामान्यार्थावग्रहोऽवलम्बन इत्युक्तः, ततोऽवलम्बनस्य भावोऽवलम्बनता, ततोऽप्यूर्ट्स किमयं शाङ्खः ? किं वा शार्ङ्ग इतीहित्वा यच्छाङ्क्ष एव शाङ्ग एव वेति ज्ञानं तदवायज्ञानं, तदपि च किमयं शाङ्खोऽपि शब्दः मन्द्रः किं वा तार? इत्युत्तरविशेष जिज्ञासायां पाश्चात्यं पाश्चात्यमवायज्ञानमुत्तरोत्तरविशेषावगमाअपेक्षया सामान्यार्थावलम्बनमित्यवग्रह इत्युपचर्यते, किं मन्द्रः? किंवा तारः१ इतीह मन्द्र एवायं तार एवायमित्यवायः, एवमुत्तरोत्तरविशेषजिज्ञासायां पाश्चात्य पाश्चात्यमबायज्ञानमुत्तरोत्तरविशेषावगमापेक्षया सामान्यार्थावलम्बनमित्यवग्रह इत्युपचर्यते, यदा उत्तरधर्मजिज्ञासा न भवति तदा तदत्यं विशेषज्ञानमघायज्ञानमेव, नावग्रह इत्युपचयेते, उपचारनिवन्धनाभावात् , उत्तरविशेषाकाङ्क्षाया अपगमात् , ततस्तदनन्तरमविच्युतिरूपा धारणा प्रवर्तते, वासनास्मृती तु सर्वेष्वपि विशेषावगमेषु द्रष्टव्ये, तथा चाह प्रवचनोपनिषद्वेदी भगवान् जिनभद्रगणिक्षमाश्रमणः
दीप
अनुक्रम [११५]
१३
~ 352~