SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ आगम (४४) “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [२९]/गाथा ||७४...|| ..... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: चक्षणमा प्यकारि प्रत त्वम् सुत्रांक [२९] दीप अनुक्रम न खल्वयस्कान्तोऽयसोऽप्राप्यकर्षणे प्रवर्त्तमानः सर्वस्याप्ययसो जगद्वर्त्तिन आकर्षको भवति, किन्तु प्रतिनियतस्यैव, (यत्तु)शङ्करखामी प्राह-"अयस्कान्तोऽपि प्राप्यकारी,अयस्कान्तच्छायाणुभिः सह समाकृष्यमाणवस्तुनः सम्बन्धमावात् , केवलं ते छायाणवः सूक्ष्मत्वान्नोपलभ्यन्ते" इति, तदेतदुन्मत्तप्रलपित, तदाहकप्रमाणाभावात् , न हि तत्र छायाणुसम्भवग्राहकं प्रमाणमस्ति, न चाप्रमाणकं प्रतिपत्तुं शक्नुमः, अथास्ति ग्राहकं प्रमाणमनुमानं, इह यदाकर्षणं तत्संसर्गपूर्वकं, यथाऽयोगोलकस्य सन्दंशेन, आकर्षणं चायसोऽयस्कान्तेन, तत्र साक्षादयस्कान्ते संसर्गः प्रत्यक्षवाधित इत्यर्थात् छायाणुभिः सह द्रष्टव्य इति, तदपि वालिशजल्पितं, हेतोरनैकान्तिकत्वात् , मन्त्रेण व्यभिचारात् , तथाहि-मन्त्रः मयमाणोऽपि विवक्षितं वस्त्वाकर्षति, न च तत्र कोऽपि संसर्ग इति, अपिच-यथा छायाणवः प्राप्तमयः समाकर्षन्ति तथा काठादिकमपि प्राप्त कस्मानाकर्षन्ति?, शक्तिप्रतिनियमादिति चेत् ननु स शक्तिप्रतिनियमोऽप्राप्तावपि तुल्य एवेति व्यर्थ छायाणुपरिकल्पनं । अन्यस्त्वाह-अस्ति चक्षुषः प्राप्यकारित्वे व्यवहितार्थानुपलधिरनुमान प्रमाणं, तदयुक्तं, अत्रापि हेतोरनैकान्तिकत्वात् , काचाभ्रपटलस्फटिकैरन्तरितस्याप्युपलब्धेः, अथेदमालाचक्षीथाः-नायना रश्मयो निर्गत्य तमर्थ गृहन्ति, नायनाश्च रश्मयस्तैजसत्वान्न तेजोद्रव्यैः प्रतिस्खल्यन्ते, ततो न कथि दोषः, तदपि न मनोरम, महाज्वालादौ स्खलनोपलब्धेः, तस्मादप्राप्यकारि चक्षुरिति स्थितं ॥ एवं मनसोप्राप्यकारित्वं भावनीयं, तत्रापि विषयकृतानुग्रहोपघाताभावाद, अन्यथा तोयादिचिन्तायामनुग्रहोऽग्निशस्त्रादिचिन्तायां [११३] ~344~
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy