________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
...................... मूल [-]/गाथा ||१|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
||१||
रस्ततः ते परान् सत्त्वान् व्यापाद्य पुण्यमुपार्जयेयुः, व्यापादिताश्च परवधे अप्रसक्ता इति व्यापादनं पुण्योपार्जना-1 न्तरायकरणं, न च पुण्योपार्जनान्तरायकृत् पुण्यमुपार्जयति, विरोधात् सर्वस्य पुण्यवन्धप्रसक्तेश्च एतेन यदुक्तं-परि-18 |णामसुन्दरं च दुःखितसत्त्वानां व्यापादन मिति तदसिद्धं द्रष्टव्यम् , पुण्योपार्जनान्तरायकरणेन परिणामसुन्दरत्वा
योगात् , अथ कर्मक्षय इति पक्षः, ननु तत्कर्म किं सहेतुकमुताहेतुकं ?, सहेतुकमपि किमज्ञानहेतुकमुताहिंसाजन्य| मुताहो वधजन्यं ?, तत्र न तावदज्ञानहेतुकम् , अज्ञानहेतुकतायां हिंसातो निवृत्त्यसम्भवात् , यो हि यन्निमित्तो दोषः स तत्प्रतिपक्षस्यैवासेवायां निवर्त्तते, यथा हिमजनितं शीतमनलासेवनेन, न चाज्ञानस्य हिंसा प्रतिपक्षभूता, किन्तु सम्यग्ज्ञानं, तत्कथमज्ञानहेतुकं कर्म हिंसातो विनिवर्त्तते ?, अथाहिंसाजन्यमिति वदेत् , तदपि न युक्तम् , एवं |सति मुक्तानामपि कर्मबन्धप्रसक्तेः, तेषामहिंसकत्वात् , अध हिंसाजन्यं, यद्येवं तर्हि कथं हिंसात एव । तस्य निवृत्तिः, न हि यत एव यस्य प्रादुर्भावः तत एव तस्य निवृत्तिभवितुमर्हति, विरोधात्, न खल्वजीर्णप्रभवो रोगो मुहुरजीर्णकरणात निवर्त्तते, ततः प्राणिहिंसोत्पादितकर्मनिवृत्त्यर्थमवश्यमाहिंसाऽऽसेवनीया,
१० उक्तं च-"तम्हा पाणिवहोयजियस्स कम्मस्स खवणहेऊओ। वहविरई कायचा संवररूवत्ति नियमेणं ॥१॥"
अथाहेतुकं, न तर्हि तदस्ति, खरविपाणवत्, तत्कथं तदपगमाय प्राणिवधोद्यमो भवतः?, अथाहेतुकमप्यस्ति | कायथाऽऽकाशं, ताकाशस्येव तस्यापि न कथञ्चन विनाश इत्यफलत्वात् न कार्यः प्राणिवधः, यदप्युक्तं-ये,
१२स्मात्प्राणिवथोपार्जितस्य कर्मणः क्षपणहेतुतः । वधवि रतिः कर्तव्या संवररूपेति नियमेन ॥ १ ॥
दीप अनुक्रम
~ 30~