________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
....................... मूलं [-]/गाथा ||१|| ............ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
श्रीमलय- गिरीया
प्रत
नन्दीवृत्तिः
संसारमोचकानां १५
सूत्रांक
||१||
२०
दीप अनुक्रम
पजायते, तीप्रदुःखवेदनाभिभववशाच प्रायवद्धं पापकर्मोदीर्योदीर्यानुभवन्तः प्रतिक्षिपन्ति, स्यादेतत्-किमत्र प्रमाणं यत्ते व्यापाद्यमानाः तीनवेदनाऽनुभवतः प्राग्वद्धं पापकर्मोदीर्योदीर्य परिक्षिपन्ति न पुनरातरौद्रध्यानोपगमतः प्रभूततरं पापमावर्जयन्तीति ?, उच्यते, युष्मसिद्धान्तानुगतमेव नारकखरूपोपदर्शकं वचः, तथाहि-नारका निरन्तरं परमाधार्मिकसुरैः ताडनभेदनोत्कर्त्तनशूल्यारोपणाधनेकप्रकारमुपहन्यमानाः परमाधार्मिकसुराभावे परस्परोदीरिततीव्रवेदना रौद्रध्यानोपगता अपि प्राग्बद्धमेव कर्म क्षपयन्ति, नापूर्व पापमधिकतरमुपार्जयन्ति, नारकायुबन्धासम्भवात् , तदसम्भवश्चानन्तरं भूयः तत्रैवोत्पादाभावाद् । अपि च-यत एव रौद्रध्यानोपगता अत एव तेषां प्रभूततरप्रा- ग्बद्धपापकर्मपरिक्षयः,तीव्रसङ्क्लेशभावात् ,न खलु तीव्रसक्लेशाभावे परमाधार्मिकसुरा अपि तेषां कर्मक्षपयितुं शक्ताः, ततो रौद्रादिध्यानमुपजनयन्तोऽपि व्यापादका ब्यापाद्यानामुपकारका एव, इत्थं च व्यापादनतः तेषामुपकारसम्भवे ये तथापादनमुपेक्षन्ते प्रतिषेधन्ति वा ते महापापकारिणः, ये पुनः प्रागुपात्तपुण्यकर्मोदयवशतः मुखासिकामनुभ-1 वन्तोऽयतिष्ठन्ते न ते व्यापादनीयाः, तेषां व्यापादने सुखानुभववियोगभावतोऽवकारसम्भवात् , न च परहितनिरताः परापकृतये संरम्भमातन्वन्ति, तदेतदयुक्तम् , परोपकारो हि स एव सुधिया विधेयो य आत्मन उपकारको, न च परेषां | व्यापादनेनोपकृतिकरणे भवतः कमप्युपकारमीक्षामहे, तथाहि-परेषां व्यापादने को भवतः उपकारः, कि पुण्यवन्धः उत कर्मक्षयः, तत्र न तावत्पुण्यबन्धः, परेपामन्तरायकरणात् , ते हि परे यदि भवता न ब्यापाये
[१]
॥१३॥
~ 29~