________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [२२]/गाथा ||५९|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२]
दीप
केवलज्ञानकेवलदर्शने समये-सिद्धान्ते साद्यपर्यवसिते भणिते, ततोब्रुवते केचन सिद्धसेनाचार्यादयः,किमित्याह-'युग- युगपदुपयोपद्' एकस्मिन् समये काले जानाति पश्यति च सर्वज्ञ इति । विपक्षे वाधामाह-"इहराऽऽईनिहणतं मिच्छाऽऽवर- निरास: णक्खओत्ति व जिणस्स । इयरेयरावरणया अहवा निकारणावरणं ॥४॥" 'इतरथा' युगपत्केवलज्ञानदर्शनभावानभ्युपगमे 'आदिनिधनत्वं' सादिसपर्यवसितत्वं केवलज्ञान केवलदर्शनयोः प्राप्नोति, तथाहि-उत्पत्तिसमयभाविकेवलज्ञानोपयोगानन्तरमेव केवलदर्शनोपयोगसमये केवलज्ञानाभावः पुनस्तदनन्तरं केवलज्ञानोपयोगसमये| केवलदर्शनाभाव इति द्वे अपि केवलज्ञानकेवलदर्शने सादिसपर्यवसिते, तथा मिथ्या-अलीकः आवरणक्षयः
केवलज्ञानावरणकेवलदर्शनावरणक्षयो जिनस्य प्राप्नोति १, न ह्यपनीतावरणौ द्वौ प्रदीपी क्रमेण प्रकाश्यं प्रकाशयतः, दातद्वत् इहापि केवलज्ञानदर्शने युगपन्निर्मूलतोऽपनीतखखावरणे ततः कथं ते क्रमेण खप्रकाश्यं प्रकाशयतः ?,
क्रमेणेति चेदभ्युपगमः तर्हि मिथ्या तदावरणक्षय इति २, तथा इतरेतरावरणता प्राप्नोति, तथाहि-यदि खावरणे निःशेषतः क्षीणेऽपि अन्यतरभावेऽन्यतरभावो नेष्यते तर्हि ते एव परस्परमावरणे जाते, तथा च सति सिद्धान्तपक्षक्षितिरिति । अथवा निष्कारणावरणं, यदि हि साकल्येन स्वावरणापगमेऽप्यन्यतरोपयोगकालेऽन्यतरस्य भावो नष्यते तर्हि तस्यान्यतरस्यावरणमकारणमेव जातं, कारणव कर्मलक्षणस्य प्रागेव सर्वथापगमात् , तथा च सति सदेवर। भावाभावप्रसङ्गः, तथा चोक्तं-"निसं सत्तमसत्यं वाऽहेतोरन्यानपेक्षणादिति" ५। 'तह य असवनुत्तं असंबद रिसत्त-12
अनक्रम
[९०]
का१०
~272~