________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [२२]/गाथा ||५९|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] “नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
श्रीमलय- गिरीया नन्दीत्तिः ॥१३॥
सुत्राक
[२]
COP
दीप
मनेकधा विप्रतिपत्तिः, सा च चूर्णिणकृता मूलटीकाकृता च दर्शिता ततो वयमपि संक्षेपतो विनेयजनानुग्रहाय तायुगपदुपयोप्रदर्शयामः-'केई भणति जुगवं जाणइ पासइ य केवली नियमा । अन्ने एगंतरिय इच्छंति सुओवएसेणं ॥१॥181 अन्ने न चेव वीसु देसणमिच्छति जिणवरिंदस्स । जंचिय केवलनाणं तं चिय से दंसणं विति ॥ २॥ व्याख्या'केचन' सिद्धसेनाचार्यादयो 'भणंति' बुयते, किमित्याह-'युगपद्' एकस्मिन् काले 'केवली' केवलज्ञानवान् न त्वन्यश्छमस्थो जानाति पश्यति च 'नियमात्' नियमेन, अन्ये पुनराचार्या जिनभद्रगणिक्षमाश्रमणप्रभृतयः 'इच्छंति' मन्यन्ते, किमिति?, आह-एकान्तरितं केवली जानाति पश्यति चेति, एकस्मिन् समये जानाति एकस्मिन्समये पश्यतीत्यर्थः । कथमेतदिच्छन्तीति ?, अत आह-श्रुतोपदेशेन, आगमानुसारेणेत्यर्थः । 'अन्ने' इत्यादि, अन्ये केचि- २० दृद्धाचार्या न चैव ज्ञानाद्दर्शनं विष्वक्-पृथगिच्छन्ति जिनवरेन्द्रस्य, जिनाः-उपशान्तरागादिदोषसमूहाः तेषां वराःप्रधाना निर्मूलत एव क्षीणसकलरामादिदोषोद्भबनिबन्धनमोहनीयकर्माणः, क्षीणमोहा इत्यर्थः, तेपामिन्द्रो-भगवान् उत्पन्न केवलज्ञानः तस्य,न त्वन्यस्य, किन्तु यदेव केवलज्ञानं तदेव 'से' तस्य केवलिनो दर्शनं त्रुवते, क्षीणसकलावरणस्य देशज्ञानाभवात् केवलदर्शनस्याप्यभावात् , तस्यापि वस्त्वेकदेशभूतसामान्यमात्रमाहितया देशज्ञानकल्पत्वादिति भा-11 वना । तत्र 'यथोद्देशं निर्देश' इति न्यायात् प्रथम युगपदुपयोगवादिमतं प्रदर्श्यते-ज केवलाई साई अपज्जयसियाई दोवि भणियाई । तो विति केइ जुगवं जाणइ पासइ य सवन्नू ॥३॥' व्याख्या-'यत्' यस्मात कारणात् द्वे अपि ।
अनक्रम
[९०
~ 271~