________________
आगम
(४४)
प्रत
सूत्रांक
[२२]
दीप
अनुक्रम
[0]
श्रीमलयगिरीया नन्दीवृत्तिः
॥१३५॥
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [२२] / गाथा ||१९||...
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
णप्पसंगो य। एगंतशेवयोगे जिणस्स दोसा बहुविहा य ॥ ५ ॥ तथा चेति समुच्चये, यदि क्रमेणोपयोग इष्यते तर्हि भगवतोऽसर्वज्ञत्यमसर्वदर्शित्वप्रसङ्गश्च प्राप्नोति, तथाहि यदि क्रमेण केवलज्ञानकेवलदर्शनोपयोगाभ्युपगमस्तर्हि न कदाचिदपि भगवान् सामान्यविशेषावेककालं जानाति पश्यति वा, ततोऽसर्वज्ञत्यास वैदर्शित्वप्रसङ्गः, पाक्षिकं वा सर्वज्ञत्वं सर्वदर्शित्वं च प्रसज्यते, तथाहि यदा सर्वज्ञो न तदा सर्वदर्शी, दर्शनोपयोगाभावात् यदा तु सर्वदर्शी न तदा सर्वज्ञो, ज्ञानोपयोगाभावादिति ५ । एवमेकान्तरोपयोगेऽभ्युपगम्यमाने सति जिनस्य दोपा बहुविधाः प्राप्नुवन्ति । एवं परेणोक्ते सति आगमवादी जिनभद्रगणिक्षमाश्रमण आह-' भण्णइ भिन्नमुहुत्तोवओगकालेऽवि तो तिनाणस्स । मिच्छा छावडी सागरोपमाई खओवसमे ॥ ६ ॥' यदुक्तम् इतरथा आदिनिधनत्वं प्राप्नोति, तदसमीचीनं, उपयोगमनपेक्ष्य लब्धिमात्रापेक्षया केवलज्ञान केवलदर्शनयोः साद्यपर्यवसितत्वस्याभिधानात् मत्यादिषु षट्षष्टिसागरोपमाणामिव यदप्युक्तं- 'मिथ्यावरणक्षय' इति तत्रापि भण्यते, यदि साद्यपर्यवसितं कालमुपयोगाभावत आवरणक्षयस्य मिध्यात्वमापद्यते 'तो' त्ति ततः 'त्रिज्ञानिनो' मतिश्रुतावधिज्ञानवतो भिन्नमुहूर्त्तलक्षणोपयोगकालेऽपि यो नाम मत्यादीनां षट्षष्टिसागरोपमाणि यावत् क्षयोपशमः सूत्रेऽभिहितः स मिथ्या प्राप्नोति, तावन्तं कालं मत्यादीनामुपयोगासम्भवात् युगपद्भावासम्भवाच्च, यापि इतरेतरावरणता पूर्वमासञ्जिता साऽप्यसमीचीना, यतो जीव स्वाभाव्यादेव मत्यादीनामिव केवलज्ञानकेवलदर्शनयोर्युगपदुपयोगासम्भवः, ततः सा कथमुपपद्यते ?, मा
For Parts Only
~ 273~
युगपदुपयोगनिरासः
२०
| ॥१३५॥
२५