________________
आगम
(४४)
प्रत
सूत्रांक
[१८]
दीप
अनुक्रम [८२-८४]
श्रीमलयगिरीया नन्दीवृत्तिः
॥१११॥
Eucation t
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [१८] / गाथा ||१८|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
******
तात्स्थ्याचद्व्यपदेश इति तावत्क्षेत्रगतानि मनोद्रव्याणि जानाति पश्यतीत्यर्थः । यावदुक्तख रूपमनः पर्यायज्ञानप्रतिपादिका गाथा, तस्या व्याख्या - मनःपर्यायज्ञानं प्राग्निरूपितशब्दार्थ, पुनःशब्दो विशेषणार्थः, स च रूपिविषयत्वक्षायोपशमिकत्वप्रत्यक्षत्वादिसाम्येऽप्यवधिज्ञानादिदं मनःपर्यायज्ञानं खाम्यादिभेदाद्भिन्नमिति विशेषयति, तथाहिअवधिज्ञानमविरतसम्यग्दृष्टेरपि भवति द्रव्यतोऽशेषरूपिद्रव्यविषयं क्षेत्रतो लोकविषयं कतिपयलोकप्रमाणक्षेत्रापेक्षया अलोकविषयं च कालतोऽतीतानागतासङ्ख्येयोत्सर्पिणीविषयं भावतोऽशेषेषु रूपिद्रव्येषु प्रतिद्रव्यमसङ्ख्येयपर्यायविषयं, मनः पर्यायज्ञानं पुनः संयतस्याप्रमत्तस्यामपपध्याद्यन्यतमर्द्धिप्राप्तस्य द्रव्यतः संज्ञिमनोद्रव्यविषयं क्षेत्रतो मनुष्य* क्षेत्रगोचरं कालतोऽतीतानागतपल्योपमा सङ्घयेयभागविषयं भावतो मनोद्रव्यगतानन्तपर्यायालम्बनं ततोऽवधिज्ञानाद्भिन्नं, एतदेव लेशतः सूत्रकृदाह - 'जनमनः परिचिन्तितार्थप्रकटनं' जायन्ते इति जनास्तेषां मनांसि जनमनांसि तैः परिचिन्तितश्चासावर्थश्च जनमनः परिचिन्तितार्थः तं प्रकटयति- प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनं, तथा मानुषक्षेत्रनिबद्धं न तद्बहिर्व्यवस्थितप्राणिद्रव्यमनोविपयमित्यर्थः, तथा गुणाः- क्षान्त्यादयस्ते प्रत्ययः कारणं यस्य तद्गुणप्रत्ययं चारित्रवतोऽप्रमत्तसंयतस्य, 'सेत्तं मणपजवनाणं' तदेतत् मनःपर्यायज्ञानं ॥
अथ केवलज्ञान वर्णयते
से किं तं केवलनाणं ?, केवलनाणं दुविहं पन्नत्तं, तंजहा-भवत्थकेवलनाणं च सिद्ध केवलनाणं च । से किं तं भवत्थकेवलनाणं ?, भवत्थकेवलनाणं दुविहं पण्णत्तं, तंजहा-सजोगिभवत्थके
For Plata Use Only
~225~
सयोग्ययोगि
केवलम्
सू. १९
२०
॥ १११ ॥
२५
rary or