________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
............... मूलं [१८]/गाथा ||५८|| ........ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
मनःप
यम् सू.१८
प्रत सूत्रांक
[१८]
कामवर्त्तिसंज्ञिपञ्चेन्द्रियमनोद्रव्यापरिच्छेदप्रसङ्गात् ,अथवा(च)अधोलौकिकामेष्वपि संक्षिपञ्चेन्द्रियमनोद्रव्याणि परि|च्छिनत्ति, यत उक्तम्--"इहाधोलौकिकान् ग्रामान्, तिर्यग्लोकविवर्तिनः । मनोगतांस्त्वसौ भावान् , वेत्ति तद्वति- नामपि ॥१॥" तथा-ऊर्दू यावज्योतिश्चक्रस्योपरितलस्तिर्यग् यावदन्तोमनुष्यक्षेत्रे मनुष्यलोकपर्यन्त इत्यर्थः, एतदेव | व्याचष्टे-अर्द्धतृतीयेषु द्वीपेषु पञ्चदशसु कर्मभूमिषु त्रिंशति चाकर्मभूमिषु षट्पञ्चाशत्सयेषु चान्तरद्वीपेषु संज्ञिना, ते चापान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्ते न च तैरिहाधिकारः ततो विशेषणमाह-पञ्चेन्द्रियाणां, पञ्चे|न्द्रियाश्चोपपातक्षेत्रमागता इन्द्रियपर्याप्तिपरिसमाप्तौ मनःपर्याश्या अपर्याप्ता अपि भवन्ति न च तैः प्रयोजनमतो विशेपणान्तरमाह-पर्याप्तानाम् , अथवा संज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि भण्यन्ते ततस्तद्वयवच्छेदार्थ पञ्चेन्द्रियग्रहणं, ते चापर्याप्सका अपि भवन्ति तद्यवच्छेदार्थ पर्याप्तग्रहणं, तेषां मनोगतान् भावान् जानाति पश्यति, तदेव मनोलब्धिसमन्वितजीवाधारक्षेत्रं विपुलमतिरर्द्ध तृतीयं येषु तान्यतृतीयानि अङ्गुलानि, तानि च ज्ञानाधिकारादुच्छ्याङ्गुलानि द्रष्टव्यानि, यत उक्तं चूर्षिणकृता-"अट्ठाइयंगुलग्गहणमुस्सेहंगुलमाणओ नाणविसयत्तणओ य न दोसो"त्ति, तैर तृतीयैरझुलैरभ्यधिकतरं, तकदेशमपि भवति तत आह-विपुलतरं-विस्तीर्णतरं, अथवा आयाम| विष्कम्भाभ्यामभ्यधिकतरं बाहुल्यमाश्रित्य विपुलतरं, तथा विशुद्धतरं वितिमिरतरमिति प्राग्वत्, जानाति पश्यति ।
दीप अनुक्रम [८२-८४]
१ अर्थतृतीयामुलपदणमुत्सेधाहलमाननो, ज्ञान विषयलाच न दोष इति ।
~ 224~