________________
आगम
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
(४४)
....................... मूलं [-]/गाथा ||१|| .............. मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
||१||
|विकल्पितस्य, न च विकल्पितमुभयरूपं वस्त्वस्ति यत्प्राप्यं सद्विषयः स्यात्, प्रवर्त्तमानस्य तु पुरुषस्य तस्य तस्वार्थस्य । पृथिव्याममज्जनादवश्यमन्यदू ज्ञानान्तरं प्राप्तिनिमित्तमुपजायते यतः किञ्चिदवाप्यत इति शाब्दज्ञानस्य विषयवत्त्वा-13 भावः, तदसत्, विषयवत्त्वाभावासिद्धेः, परोक्षस्य तद्विषयत्वाभ्युपगमात्, यत्पुनरुक्तं-'न शब्दस्वार्थेन सह निश्चितान्वयव्यतिरेकता, प्रतिबन्धाभावादिति, तदसमीचीनं, वाच्यवाचकभावलक्षणेन प्रतिबन्धान्तरेण नान्तरीयकतानिश्चयात. शब्दो हि बाह्यवस्तुवाचकखभावतया तन्नान्तरीयकः, ततस्तन्नान्तरीयकतायां निश्चितायां शब्दादू निश्चितस्यैवार्थस्य । प्रतिपत्तिन विकल्पितरूपस्य, निश्चितं च प्रापयत् विषयवदेव शाब्दं ज्ञानमिति । स्यादेतद्-यदि वास्तवसंवन्धपरिक-15 रितमूर्तयः शब्दाः तर्हि समाश्रयतु निरर्थकतामिदानी सङ्केतः, स खलु संवन्धो यतोऽर्थप्रतीतिः,स चे वास्तवो निरर्थकः सतः, तत एवार्थप्रतीतिसिद्धे, तदेतदत्यन्तप्रमाणमार्गानभिज्ञत्वसूचकं, यतो न विद्यमान इत्येव सम्बन्धोऽर्थप्रतीतिनिवन्धनं, किन्तु खात्मज्ञानसहकारी, यथा प्रदीपः, तथाहि-प्रदीपो रूपप्रकाशनखभायोऽपि यदि खात्मज्ञानसहकारिकृतसाहायकः ततो रूपं प्रकाशयति, नान्यथा, ज्ञापकत्वात् , न खलु धूमादिकमपि लिहं वस्तुवृत्त्या वयादि-12 प्रतिबद्धमपि सत्तामात्रेण वह्नयादेर्गमकमुपजायते, यदुक्तमन्यैरपि-"ज्ञापकत्वाद्धि सम्बन्धः, खात्मज्ञानमपेक्षते । तेनासौ विद्यमानोऽपि, नागृहीतः प्रकाशकः ॥१॥" सम्बन्धस्य च परिज्ञानं तदावरणकर्मक्षयक्षयोपशमाभ्यां, तौ च सङ्केततपश्चरणभावनाद्यनेकसाधनसाध्यौ, ततः तपश्चरणभावनासङ्केतादिभ्यः समुत्पन्नतदावरणकर्मक्षयक्षयो
दीप अनुक्रम
AM
LKaruna
~ 20~