SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक |||| दीप अनुक्रम [१] “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः) मूलं [-] /गाथा ||१|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः श्रीमलय पशमानां शब्दादर्थाच केवलादप्यवैपरीत्येन वाच्यवाचकभावलक्षणः सम्बन्धोऽवगमपथसृच्छति, तथाहि सर्वे एव सर्वगिरीमा 4 वेदिनः सुमेरुजम्बूद्वीपा दीनर्थानगृहीतसङ्केता अपि तत्सच्छच्दवाच्यानेव प्रतिपद्यन्ते तैरेव तथाप्ररूपणात्, कल्पान्तरवर्त्तिनन्दीवृत्तिः ॐ भिरन्यैरेवं प्ररूपिता इति तैरपि तथा प्ररूपिता इति चेत्, ननु तेषामपि कल्पान्तरवर्त्तिनां तथाप्ररूपणे को हेतुरिति ॥ ९ ॥ वाच्यम्, तदन्यैरेवं प्ररूपणादिति चेत् अत्रापि स एव प्रसङ्गः, समाधिरपि स एवेति चेत्, ननु तर्हि सिद्धः सुमेर्वाद्यर्थानां तदभिधायकानां च वास्तवः सम्बन्धः, सर्वकल्पवर्त्तिभिरपि सर्ववेदिभिस्तेषां सुमेर्वादिशब्दवाच्यतया प्ररूपणात्, अना|दित्वात्संसारस्य कदाचित्कैश्चिदन्यथापि सा प्ररूपणा कृता भविष्यतीति चेत्, न, अतीन्द्रियत्वेनात्र प्रमाणाभावात्, सर्वैरपि तथैव सा प्ररूपणा कृतेत्यत्रापि न प्रमाणमिति चेत्, न, अत्र प्रमाणोपपत्तेः, तथाहि शाक्यमुनिना सम्प्रति सुमेर्वादिकोऽर्थः सुमेर्वादिशब्देन प्ररूपितः, स च सुमेर्वादौ सुमेर्वादिशब्दप्रयोगः सङ्केतद्वारेणाप्यतत्खभावतायां तयोर्नोपपद्यते, तत्स्वभावत्वाभ्युपगमे च सिद्धं नः समीहितम्, अनादावपि काले तयोः तत्स्वभावत्वात्, तत्समानपरिणामस्य प्रवाहतो नित्यत्वात् तत्र सम्बन्धाभ्युपगमाद् इत्थं चैतदङ्गीकर्त्तव्यमन्यथाऽनादित्वात्संसारस्य कदाचिदन्यतोऽपि धूमादेर्भावो भविष्यतीत्येवं व्यभिचारशङ्का धूमधूमध्वजादिषु प्रसरन्ती दुर्निवारेत्यलं दुर्मतिविस्पन्दितेषु प्रयासेन, ननु यदि पारमा|र्थिकसम्बन्धनिवद्धखरूपत्वादिमे शब्दाः तात्त्विकार्थाभिधानप्रभविष्णवः तर्हि दर्शनान्तरनिवेशिपुरुषपरिकल्पितेषु वाच्येष्येतेषां प्रवृतिर्नोपपद्येत परस्परविरुद्धत्वेन तेषामर्थानां खरूपतोऽभावात् यदपि च विनष्टमनुत्पन्नं वा Education Th For Palata Use Only ~ 21~ शाब्द प्रामाण्यं. १५ २० ॥ ९ ॥ २ andrary org
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy