SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक [१२] गाथा: |४८ ५५|| दीप अनुक्रम [६४-७३] श्रीमलय गिरीया नन्दीवृत्तिः “नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:) मूलं [१२] / गाथा ||१५|| मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः ॥ ९४ ॥ ★ ****** इति सहयेयः स च वर्षमात्रोऽपि भवति ततः शब्दो विशेषणार्थः, किं विशिनष्टि १ - सङ्ख्यकालो वर्षसहस्रात्परो वेदितव्यः, तस्मिन् सङ्ख्येये कालेऽवधिगोचरे सति क्षेत्रतः तस्यैवावधेर्गोचरतया द्वीपाश्च समुद्राश्च द्वीपसमुद्राः तेऽपि सङ्घयेया भवन्ति, अपिशब्दात् महानेकोऽपि महत एकदेशोऽपि किमुक्तं भवति ? - सङ्ख्येये कालेsविधिना परिच्छिद्यमाने क्षेत्रमप्यत्रत्यप्रज्ञापकापेक्षया सङ्ख्येयद्वीपसमुद्रपरिमाणं परिच्छेद्यं भवति, ततो यदि नामात्र त्यस्वावधिरुत्पद्यते तर्हि जम्बूद्वीपादारभ्य सङ्ख्येया द्वीपसमुद्रास्तस्य परिच्छेद्याः, अथवा बाह्ये द्वीपे समुद्रे वा सङ्ख्येययोजनविस्तृते कस्यापि तिरश्चः सङ्ख्येयकालविषयोऽवधिरुपद्यते तदा स यथोक्तक्षेत्रपरिमाणं तमेवैकं द्वीपं समुद्रं वा पश्यति, यदि पुनरसङ्ख्येययोजनविस्तृते स्वयम्भूरमणादिके द्वीपे समुद्रे वा सङ्ख्येयकाल विषयोऽवधिः कस्याप्युत्पद्यते तदानीं स प्रागुक्तपरिमाणं तस्य द्वीपस्य समुद्रस्य वा एकदेशं पश्यति इहत्यमनुष्यवायावधिरिव कश्चित्, तथा कालेsसङ्ख्येये पल्योपमादिलक्षणे अवधेर्विषये सति तस्यैव सङ्ख्येयकालपरिच्छेदकस्यावधेः क्षेत्रतया परिच्छेद्या द्वीपसमुद्राः 'भाज्या' विकल्पनीया भवन्ति, कस्यचिदसङ्ख्येयाः कस्यचित्सङ्ख्येयाः कस्यचिदेकदेश इत्यर्थः, यदा इह मनुष्य| स्यासङ्ख्येयकालविषयोऽवधिरुत्पद्यते तदानीमसङ्ख्येया द्वीपसमुद्रास्तस्य विषयः, यदा पुनर्वहिद्वीपे समुद्रे वा वर्तमानस्य कस्यचित् तिरथोऽसयेयकालविषयोऽवधिरुत्पद्यते तर्हि तस्य सङ्ख्येया द्वीपसमुद्राः, अथवा यस्य मनुष्यस्य सङ्ख्येयकालविषयो वाह्यद्वीपसमुद्रालम्बनो बाह्यावधिरुत्पद्यते तस्य सङ्ख्येया द्वीपाः, यदा पुनः स्वयम्भूरमणे द्वीपे समुद्रे वा Education Internationa For Panason ~ 191~ मध्यमा वधि क्षेत्रकालो. १५ २० ॥ ९४ ॥ २५ inary or
SR No.004146
Book TitleAagam 44 NANDISOOTRA Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages514
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_nandisutra
File Size114 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy