________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [-]/गाथा ||१|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
SECSI
प्रत सूत्रांक
||१||
शोकादिना तद्विकारदर्शनात् , तन्न देह उपादानं संवेदनस्य, उक्तंच-"अविकृत्य हि यद्वस्तु, यः पदार्थो विकार्यते । | उपदानं न तत्तस्य, युक्तं गोगवयादिवत् ॥१॥" एतेन यदुच्यते-'मातापितृचैतन्यं सुतचैतन्यस्योपादान'मिति, त-|
दपि प्रतिक्षिप्तमवगन्तव्यं, तत्रापि तद्विकारे विकारित्वं तदविकारे चाविकारित्वमिति नियमादर्शनात, अन्यच-यद्य|स्योपादानं तत्तस्मादभेदेन व्यवस्थितं, यथा मृदो घटः, मातापितृचैतन्यं च चेत्सुतचैतन्यस्योपादानं ततः सुतचैतन्यं मातापितॄचैतन्यादभेदेन व्यवतिष्ठेत्, तस्माद् यत्किञ्चिदेतत् , तन्न भूतधर्मो भूतकार्य वा चैतन्यम्, अथ चास्ति प्रतिप्राणि खसंवेदनप्रमाणसिद्धमतो यस्येदं स यथोक्तलक्षणो जीवः ॥ 'योनय' इति 'युक् मिश्रणे' युवन्ति-तैजसकामर्मणशरीरवन्तः सन्त औदारिकशरीरेण वैक्रियशरीरेण वाऽऽखिति योनयो-जीवानामेवोत्पत्तिस्थानानि ताश्च सचिचादिभेदभिन्ना अनेकप्रकाराः, उक्तं च-सचित्तशीतसंवृत्तेतरमिश्रास्तद्योनयः, [सचित्तशीतसंवृत्ताः सेतरा मिश्राश्चैकशस्तद्योनयः] (तत्वा० अ०२ सू०३२) इति, जगच जीवाश्च योनयश्च जगजीवयोनयः तासां विविधम्-अनेकप्रकारमुत्पादाद्यनन्तधात्मकतया जानातीति विज्ञायको जगजीवयोनिविज्ञायकः, अनेनं केवलज्ञानप्रतिपादनात् खार्थसम्पदमाह । तथा जगद् गृणाति-यथावस्थितं प्रतिपादयति शिष्येभ्य इति जगद्गुरुः, यथावस्थितसकलपदार्थप्रतिपादक इत्यर्थः, एतेन यत्कैश्चित् शब्दस्य बहिरथ प्रति प्रामाण्यमपाक्रियते तदपास्तं द्रष्टव्यं, तथाहि ते एवमाहुः-प्रमेयं वस्तु परिच्छिन्नं प्रापयत्प्रमाणमुच्यते, प्रमेयं च विषयः प्रमाणस्येति प्रामाण्यं विषयवत्तया व्याप्तं, ततो यद्विषय-13
दीप अनुक्रम
[१]
~ 18~