________________
आगम
(४४)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[१]
श्रीमलयगिरीया नन्दीवृत्तिः
|| 61 ||
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्तिः)
मूलं [ - ]/गाथा ||१||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४४], चूलिका सूत्र [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
कश्चित् न, कचित्पुनः प्रतिकूलकम्मोदयात्, प्रतिकूलकमदयजनितो हि वित्रादिव्याधिरौषधसहस्रैरपि कश्चिदसाध्यो भवति, एतथ द्विविधमप्यसाध्यत्वं व्याधेः परमेश्वरप्रवचनवेदिनामेव मते सङ्गच्छते, न भवतो भूतमात्रतत्ववादिनः कचित्पुनरसाध्यो व्याधिर्दोषकृतविकारनिवर्त्तनसमर्थस्योपधस्याभावाद् वैद्यस्य वा, वैद्योपधसम्पर्काभावे हि व्याधिः सर्पन् सकलमप्यायुरुपक्रमते, ननु वैद्योपधसम्पर्काभावादेवास्माकमपि पुनरुज्जीवनं न भविष्यति, नहि तदस्ति किञ्चिदौषधं वैद्यो वा यत्पुनरुज्जीवयति, तदप्ययुक्तं, वैद्यौषधे हि दोषकृतविकारनिवर्त्तनार्थमिष्येते, न पुनरत्यन्तासत चैतन्यस्योत्पादनार्थं, तथाऽनभ्युपगमात्, दोषकृताश्च विकारा मृतावस्थायां स्वयमेव निवृत्ताः, ज्वरादेरदर्शनात्, ततः किं वैद्योपधान्वेषणेनेति तदवस्थ एव पुनरुज्जीवनप्रसङ्गः । अपि च कश्चिद दोषाणामुपशमेऽप्यकस्मादेव म्रियते कश्चिचातिदोषदुष्टत्वेऽपि जीवति, तदेतद् भवन्मते कथं व्यवतिष्ठते?, आह च - "दोषस्योपशमेऽप्यस्ति, मरणं कस्यचित्पुनः । जीवनं दोषदुष्टत्वेऽप्येतन्न स्याद् भवन्मते ॥ १ ॥ " अस्माकं तु मतेन यावदायुः कर्म विजृम्भते सायद् दोषैरतिपीडितोऽपि जीवति, आयुःकर्मक्षये च दोषाणामविकृतावपि म्रियते तन्न देहमात्रनिमित्तं संवेदनम् । अन्यच - देहः कारणं संवेदनस्य सहकारिभूतं भवेदुपादानभूतं वा ?, यदि सहकारिभूतं तदिष्यत एव, देहस्यापि क्षयोपशमहेतुतया कथञ्चिद् विज्ञानहेतुत्वाभ्युपगमात्, अथोपादानभूतं तदयुक्तम्, उपादानं हि तत् तस्य यद्विकारेणैव यस्य विकारो, यथा मृद् घटस्य, न च देहविकारेणैव विकारः संवेदनस्य, देहविकाराभावेऽपि भय
Eucation Internationa
For Parts Only
~ 17~
जीवसचा. .१५
२०
॥७॥
२६
nary or