________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................ मूलं [-]/गाथा ||१|| ......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
||१||
मातविकारभावाभावाननुविधानात् , एवं हि देहकारणता विज्ञानस्य श्रद्धेया स्यात् यदि पुनरुज्जीवनं भवेत् , स्यादेतद्
अयुक्तमिदं पुनरुज्जीवनप्रसङ्गापादनं, यतो यद्यपि दोषा देहस्य वैगुण्यमाधाय निवृत्ताः तथापि न तत्कृतस्य वैगु-1 पाण्यस्य निवृत्तिः, न हि दहनकृतो विकारः काठे दहननिवृत्तौ निवर्तमानो दृष्टः, तदयुक्तम्, इह हि किञ्चित् कचि-15
दनिवयविकारारम्भकं यथा वह्निः काष्ठे, न हि श्यामतामात्रमपि वहिना कृतं का? वहिनिवृत्ती निवर्तते, किधि-4 कात्पुनः क्वचित् निवर्त्यविकारारम्भकं यथा स एवाग्निः सुवर्णे, तथाहि-अभिकृता सुवर्णे द्रवताऽमिनिवृत्ती 31निवर्तते, तथा वाय्वादयो दोषा निवर्त्यविकारारम्भकाः, चिकित्साप्रयोगदर्शनाद्, यदि पुनरनिवर्त्यविकारारम्भका ला भवेयुः तर्हि न तद्विकारनिवर्तनाय चिकित्सा विधीयेत, वैफल्यप्रसङ्गात्, न च वाच्यम्-मरणात् प्राग् दोषा निवर्त्यविकारारम्भका मरणकाले त्वनिवर्त्यविकारारम्भका इति, एकस्यैकत्रैव निवत्यानिवत्यै विकारारम्भकत्वा
योगातू, न हि एकमेव तत्रैव निवर्त्यविकारारम्भकमनिवर्त्य विकारम्भकं च भवितुमर्हति, तथाऽदर्शनात, नन ६ द्विविधो हि व्याधिः-साध्योऽसाध्यश्च, तत्र साध्यो नियत्यखभावः, तमेवाधिकृत्य चिकित्सा फलपती, असाध्यो-1 है। निवर्तनीयः, न च साध्यासाध्यभेदेन व्याधिद्वैविध्यमप्रतीतम्, सकललोकप्रसिद्धत्वाद् , व्याधिश्च दोपवैषम्यकृतः,
ततः कथं दोषाणां निवानिवर्त्य विकारारम्भकत्वमनुपपन्नमिति, तदप्यसत्, भवन्मतेनासाध्यन्याधेरेवानुपपत्तेः । तथाहि-असाध्यता व्याधेः कचिदायुःक्षयात्, यतः तस्मिन्नेव व्याधी समानीषधवेद्यसम्पर्केऽपि कश्चिन्प्रियास
दीप अनुक्रम
~16~