________________
आगम (४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः ) ................................... मूल [१२/गाथा ||५५|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्राक
[१२]
गाथा:
||४८५५||
वनस्पतिविशेषः, तस्य 'यावती' यावत्परिमाणा अवगाहन्ते क्षेत्रं यस्यां स्थिता जन्तवः साऽवगाहना-तनुरित्यर्थः, जघन्याय 'जघन्या' त्रिसमयाहारकशेषसूक्ष्मपनकजीवापेक्षया सर्वस्तोका, एतावत्परिमाणमवधेर्जघन्य क्षेत्रं, तुशब्द एवकारार्थः,8 वधिक्षेत्रस चावधारणे, तस्य चैवं प्रयोगः-जघन्यमवधिक्षेत्रमेतावदेवेति । अत्र चायं सम्प्रदायः-यः किल योजनसहस्रपरि
कालो. माणायामो मत्स्यः खशरीरवायैकदेश एवोत्पद्यमानः प्रथमसमये सकलनिजशरीरसम्बद्धमात्मप्रदेशानामायाम संहत्याङ्गुलासंख्येयभागवाहल्यं खदेहविष्कम्भायामविस्तारं प्रतरं करोति, तमपि द्वितीयसमये संहत्याङ्गुलासङ्ख्येयभाग-2 वाहल्यविष्कम्भां मत्स्यदेह विष्कम्भायामामात्मप्रदेशानां सूचिं विरचयति, ततस्तृतीयसमये तामपि संहृत्याङ्गुलासङ्ख्येयभागमात्र एव खशरीरबहिःप्रदेशे सूक्ष्मपरिणामपनकरूपतयोत्पद्यते, तस्योपपातसमयादारभ्य तृतीये समये वर्तमानस्य यावत्प्रमाणं शरीरं भवति तावत्परिमाणं जघन्यमवधेः क्षेत्रमालम्वनवस्तुभाजनमवसेयम् , उक्तं च-"योजनसहस्रमानो मत्स्यो मृत्वा खकायदेशे यः । उत्पद्यते हि पनकः सूक्ष्मत्वेनेह स प्रायः ॥ १॥ संहत्य चाद्यसमये स ह्यायाम करोति च प्रतरम् । सङ्ख्यातीताख्याङ्गुलविभागवाहल्यमानं तु॥२॥ खकतनुपृथुत्वमात्रं दीर्घत्वेनापि जीव-18 सामर्थ्यात् । तमपि द्वितीयसमये संहृत्य करोत्यसौ सूचिम् ॥३॥ सङ्ख्यातीताख्याङ्गुलविभागविष्कम्भमाननिर्दिष्टाम्। निजतनुपृथुत्वदीपा तृतीयसमये तु संहृत्य ॥४॥ उत्पद्यते च पनकः खदेहदेशे स सूक्ष्मपरिणामः । समयत्रयेण तस्थावगाहना यावती भवति ॥५॥ तापज्जघन्यमबधेरालम्बनवस्तुभाजनं क्षेत्रम् । इदमित्यमेव मुनिगणसुसम्प्रदा-1513
दीप अनुक्रम [६४-७३]
~ 184~