________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
................... मूलं [८]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
एकादीनिरसस्थानकानि.
प्रत सूत्रांक
[८]
५
णामावर्त्तने कृते सति एकः कर्पोऽवशिष्टः त्रिस्थानकः, चतुपणां कर्षाणामावर्त्तने कृते सति उद्धरति य एकः कपः स चतुःस्थानकः, एकस्थानकोऽपि च रसो जललवबिन्दुचुलकार्धचुलुकप्रसृत्यञ्जलिकरककुम्भद्रोणादिप्रक्षेपात् मन्दमन्दतरादिवहुभेदत्वं प्रतिपद्यते, एवं द्विस्थानकादयोऽपि, एवं कर्मणामपि चतुःस्थानकादयो रसा| भावनीयाः प्रत्येकमनन्तभेदभाजश्च, कर्मणां चैकस्थानकादयो रसाः यथोत्तरमनन्तगुणा वेदितव्याः, उक्तं च-"अणंतगुणिया कमेणियरे" तत्राशुभप्रकृतीनां चतुःस्थानकरसवन्धः प्रस्तररेखासदृशैः अनन्तानुबन्धिको- धादिकैः क्रियते दिनकरातपशोषिततडागभूरेखासदृशैरप्रत्याख्यानसंज्ञैः क्रोधादिभिः त्रिस्थानकरसबन्धः सिकताकणसंहतिगतरेखासदृशैः प्रत्याख्यानावरणसंज्ञैर्द्विस्थानकरसबन्धो जलरेखासदृशैस्तु सज्वलनसंज्ञैरेकस्थानकरसवन्धः, शुभप्रकृतीनां पुनरेतदेव व्यत्यासेन योजनीयम् , नवरं द्विस्थानकादारभ्य, तथा चोक्तम्-पञ्चयभूमीवालुयजलरेहासरिस संपराएसुं । चउठाणाई असुभाण सेसयाणं तु वच्चासो ॥१॥" इति, 'शेषकाणां' शुभप्रकृतीनां व्यत्यासो द्रष्टव्यः, सच द्विस्थानकादारभ्य, यथोक्तं प्राक् । अथ कथमवसीयते ? यदुत द्विस्थानकादारभ्य व्यत्यासो नैकस्थानकादारभ्य ?, उच्यते, शुभप्रकृतीनामेकस्थानकरसबन्धस्यासम्भवाद, असम्भवः कथमिति चेद, उच्यते, इहात्सन्तविशुद्धौ वर्तमानः शुभप्रकृतीनां चतुःस्थानकमेव रसं बनाति, ततो मन्दमन्दतरविशुद्धौ त्रिस्थानकं द्विस्थानकं वा, सङ्क्लेशाद्धायां तु वत्ते.१ अनन्तगुणाः ममेणेतरे। २ पर्वतभूमिवालुकाजलरेखास शैः संपरावैः । चतुःस्थानादयः अशुभामा शेषाणां तु व्यखासः ॥ १॥
दीप अनुक्रम [६०]
~ 158~