________________
आगम
(४४)
“नन्दी'- चूलिकासूत्र-१ (मूलं+वृत्तिः )
.................... मूलं [२]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
(२]
मा भूचक्षुषोऽपगमः तथापि यदि चक्षुरेव द्रष्टु ततः स्मरणमात्मनो न भवेत् , अन्येनानुभूतेऽर्थेऽन्यस्य स्मरणायो- आत्मनो गात्, भवति च स्मरणमात्मनः चक्षुषः स्मर्तृत्वेनाप्रतीतेरनभ्युपगमाच्च, तस्मादात्मैवोपलब्धा नेन्द्रियमिति । तथा द्रष्टत्वम् चात्र प्रयोगः-यो येयूपरतेष्वपि तदुपलब्धानर्थान् स्मरति स तत्रोपलब्धा, यथा गवाक्षोपलब्धानामर्थानामनुस्मा[4 देवदत्तः, अनुस्मरति च द्रव्येन्द्रियोपलब्धानर्थान् द्रव्येन्द्रियापगमेऽप्यात्मा, इह स्मरणमनुभवपूर्वकतया व्याप्त, व्याप्यव्यापकभावश्चानुभवस्मरणयोः प्रत्यक्षेणैव प्रतिपन्नः, तथाहि-योऽर्थोऽनुभूतः स स्मयते न शेषः, तथा खसंवेदनप्रत्यक्षेण प्रतीतेः, विपक्षे चातिप्रसङ्गो बाधकं प्रमाणं, अननुभूतेऽपि विषये यदि स्मरणं भवेत् ततोऽननुभूतत्वा-18 विशेषात् खरविषाणादेरपि स्मरणं भवेदित्यतिप्रसङ्गः, तस्मात् द्रव्येन्द्रियापगमेऽपि तदुलब्धार्थानुस्मरणादात्मा उपलब्धेति स्थितं, उक्तं च--"केसिंचि इंदियाई अक्खाई तदुबलद्धि पञ्चक्खं । तन्नो ताई जमचेयणाई जाणंति न घडोष ॥१॥ उवलद्धा तत्थाया तधिगमे तदुवलद्धसरणाओ। गेहगवक्खोवरमेवि तदुवलद्धाणुसरिया वा ॥२॥" अत्र वाशब्द उपमार्थः । अपरे पुनराहुः-न वयमिन्द्रियाणामुपलब्धृत्वं प्रतिजानीमहे, किन्त्वेतदेव बमो-वदिन्द्रियद्वारेण प्रवर्तते ज्ञानमात्मनि तत्प्रत्यक्षं, न चेन्द्रियव्यापारव्यवहितत्वादात्मा साक्षानोपलब्धेति वक्तव्यम् , इन्द्रियाणामुपलब्धि
दीप अनुक्रम
[१४]
NAR
१ केपोचिदिन्द्रियाणि अक्षाणि तदुपलब्धिः प्रत्यक्षम् । तन्न तानि यदचेतनानि जानन्ति न घय इव ॥ 1 ॥ डालचा तवारमा तद्विगमे तबुपलब्धसारणात् ।। गवाक्षोपर मेऽपि तदुपलब्धानुसती इव ॥ २॥
का१३
~148~