________________
आगम
(४४)
“नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................. मूलं २]/गाथा ||४७...|| ...... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४४], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
ऐन्द्रिय
प्रत
सूत्रांक
[२]
दात्मनो, धूमादग्निज्ञानमिव, तत्परोक्षम् , उभयत्रापि इन्द्रियमनोनिमित्तं ज्ञानमभिधेयम् । आह-इन्द्रियमनोनि-IPI [मित्ताधीनं कथं परोक्षम् ?, उच्यते, पराश्रयत्वात् , तथाहि-पुद्गलमयत्वाड्रव्येन्द्रियमनांस्थात्मनः पृथग्भूतानि, ततः कस्य पतदाश्रयेणोपजायमानं ज्ञानमात्मनो न साक्षात्, किन्तु परम्परया, इतीन्द्रियमनोनिमित्तं ज्ञानं धूमादग्निज्ञानमिव
रोक्षता परोक्षं, उक्तं च-"अक्खस्स पोग्गलमया जं दबिंदियमणा परा होति । तेहिंतो जं नाणं परोक्खमिह तमणुमाणं व ॥१॥" अत्र वैशेषिकादयः प्राहुः-'नन्वक्षमिन्द्रियं श्रोतो हृषीकं करणं स्मृतं,' ततोऽक्षाणाम्-इन्द्रियाणां या साक्षादुपलब्धिः सा प्रत्यक्षं, अक्षम्-इन्द्रियं प्रति वर्तते इति प्रत्यक्षव्युत्पत्तेः, तथा च सति सकललोके प्रसिद्ध साक्षादिन्द्रियाश्रितं घटादि ज्ञानं प्रत्यक्षमिति सिद्धं, तदेतदयुक्तम् , इन्द्रियाणामुपलब्धृत्वासम्भवात् , तदसंभवश्वाचेतनत्वात् , तथा चात्र प्रयोगः-यदचेतनं तन्नोपलब्धू, यथा घटः, अचेतनानि च द्रव्येन्द्रियागि, न चायमसिद्धो हेतुः, यतो नाम द्रव्येन्द्रियाणि निवृत्त्युपकरणरूपाणि, 'निर्वृत्त्युपकरणे द्रव्येन्द्रियमिति(त०अ०२-०१७)वचनात् , निर्वृत्त्युपकरणे च पुद्गलमये, यथा चानयोः पुद्गलमयता तथाऽने वक्ष्यते, पुद्गलमयं च सर्वमचेतनं, पुद्गलानां काठिन्यानवयोधरूपतया चैतन्यं प्रति धर्मित्वायोगात्, धर्मानुरूपो हि सर्वत्रापि धमी, यथा काठिन्यं प्रति पृथिवी, यदि पुनरनुरूपवाभावेऽपि धर्मधम्मिभावो भवेत् ततः काठिन्यजलयोरपि स भवेत्, न च भवति तस्मादचेतनाः पुद्गलाः, उक्तं च
अक्षस्य पुलममानि वाम्येन्द्रियमनांसि पराणि भवन्ति । तेभ्यो यज्ज्ञानं परोक्ष मिद तदू अनुमानमिव ॥ १॥
दीप अनुक्रम [१४]
~146~