________________
आगम
(४४)
“नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
................... मूलं [१]/गाथा ||४७...|| .......... मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[४५], चूलिका सूत्र-[१] "नन्दीसूत्र" मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१]
सर्वाण्यपि केवलज्ञानेऽपि विद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गाद् , अविषयत्वात् , तथा च सति के-15 पलिनोऽप्यसर्वज्ञत्वप्रसङ्गः, आभिनिबोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाग्रहणात् , न चैतदिष्टमिति, अधोच्यत- भेदपञ्चप्रतिपत्तिप्रकारभेदत आभिनिवोधिकादिभेदः, तथाहि-न यादृशी प्रतिपत्तिराभिनिबोधिकज्ञानस्य तादृशी श्रुत-14
| कसिद्धि ज्ञानस्य किन्वन्यादृशी, एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यम् , ततो भवत्येव प्रतिपत्तिभेदतो ज्ञानभेदः, तदप्ययुक्तम् , | एवं सत्येकस्मिन्नपि ज्ञानेऽनेकभेदप्रसक्तेः, तथाहि-तत्तद्देशकालपुरुषखरूपभेटेन विविच्यमानमेकैकं ज्ञानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपद्यते, तन्नैपोऽपि पक्षः श्रेयान् , स्यादेतद्-अस्त्यावारकं कर्म, तचानेकप्रकारं, ततः तद्भेदात् तदावार्य ज्ञानमप्यनेकतां प्रतिपद्यते, ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाऽभिधानात् , ततो ज्ञानमपि पञ्चधा प्ररूप्यते, तदेतदतीव युक्त्यसतं, यत आवार्यापेक्षमावारकमत आवार्यभेदादेव तद्भेदः, आवाय च ज्ञप्तिरूपापेक्षया सकलमप्येकरूपं, ततः कथमावारकस्य पञ्चरूपता ?, येन तद्भेदात् ज्ञान स्यापि पञ्चविधो भेद उद्गीर्येत, अथ स्वभावत एवाभिनिबोधिकादिको ज्ञानस्य भेदो, न च खभावः पर्यनुयोगमश्नुते, न खलु किं दहनो दहति नाकाशमिति कोऽपि पर्यनुयोगमाचरति, अहो महती महीयसो भवतः शेमुपी, ननु यदि स्वभावत एवाभिनिवोधादिको ज्ञानस्य |भेदस्तहि भगवतः सर्वज्ञत्वहानिप्रसङ्गः, तथाहि-ज्ञानमात्मनो धर्मः, तस्य चाभिनिवोधादिको भेदः स्वभावत एव व्यवस्थितः, क्षीणावरणस्यापि तद्भावप्रसङ्गः, सति च तद्भावेऽस्मादृशस्येव भगवतोऽप्यसर्वज्ञत्वमापद्यते, केवलज्ञान- १३
दीप अनुक्रम
[१३]
१०
~ 136~