________________
आगम
(४४)
प्रत
सूत्रांक
॥४४॥
दीप
अनुक्रम
[४६]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [-] /गाथा ||४४||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र [४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
ये चिन्तयन्ति - अनुपकृतोपकारी भगवानाचार्योऽस्माकं, को नामान्यो महान्तमेवं व्याख्याप्रया समस्मन्निमित्तं विदधाति ?, ततः किमेतेषां वयं प्रत्युपकर्त्तुं शक्ताः ?, तथापि यत् कुर्मः सोऽस्माकं महान् लाभ इति परनिरपेक्षं विनयादिकमादधते, तेषां नावसीदत्याचार्यः अव्यवच्छिन्ना सूत्रार्थप्रवृत्तिः समुच्छलति च सर्वत्र साधुवादः गच्छान्तरे च तेषां सुलभं श्रुतज्ञानं परलोके च सुगत्यादिलाभ इति १४ ॥ सम्प्रति मेरीदृष्टान्तभावना - इह शक्रादेशेन वैश्रवणयक्षनिर्मापितायां काञ्चनमयप्राकारादिपरिकरितायां पुरि द्वारवत्यां त्रिखण्डभरतार्द्धाधिपत्वमनुभवति केशवे कदाचि दशिवमुपतस्थौ । इतश्च द्वात्रिंशद्विमानशतसहस्रसङ्कुले सौधर्म्मकल्पे सुधर्माभिधसभोपविष्टः सर्वतो दिवौकः पर्युपा| स्वमानः शक्राभिधानो मघवा पुरुषगुणविचारणाधिकारे केशवमिहावस्थितमवधिना समधिगम्य सामान्यतः तत्| प्रशंसामकार्षीत्-अहो महानुभावा विष्णवो यद्दोषबहुलेऽपि वस्तुनि स्वभावतो गुणमेव गृह्णन्ति, न दोषलेशमपि, न च नीचयुद्धेन युध्यन्ते इति, इत्थं च मघवता केशवस्तुतिमभिधीयमानामसहमानः कोऽपि दिवौकाः परीक्षार्थमिहावतीर्यं येन पथा भगवदरिष्टनेमिनमस्करणाय केशवो यास्यति तस्मिन् पथि अपान्तराले कचित् प्रदेशे समु | त्रासित सकलजनम हा दुरभिगन्धसङ्कुलमतीव दीप्यमानमहा कालिमकलितं विवृतमुखमुत्पादितश्वेतदन्तपतिं गतप्राणमिव शुनो रूपं विधाय प्रातरवतस्थे, केशवोऽपि चोज्जयन्तगिरिसमवसृत भगवदरिष्टनेमिनमस्कृतये तेन पथा गन्तुं प्रववृते पुरोयायी च पदात्यादिवर्गः समस्तोऽपि तद्गन्धसमुत्रासितो वस्त्राञ्चलपिहितनासिकस्त्वरितमितस्ततो गन्तु
For Park Use Only
~122~
मेरीदृष्टान्तः. १५
५
१३
wandra.org