________________
आगम
(४४)
प्रत
सूत्रांक
॥४४॥
दीप
अनुक्रम [४६]
“नन्दी”- चूलिकासूत्र -१ ( मूलं + वृत्ति:)
मूलं [-] /गाथा ||४४||
मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र- [ ४४], चूलिका सूत्र - [१] “नन्दीसूत्र” मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
गृहीतं सूत्रमर्थ वाऽतिपरिचितं कृत्वाऽन्यत्पृच्छति स जाहकसमानः, स च योग्यः १३ ॥ सम्प्रति गोटान्तभावना क्रियते यथा केनापि कौटुम्बिकेन कस्मिंश्चित् पर्वणि चतुर्भ्यश्वतुर्वेदपारगामिकेभ्यो विप्रेभ्यो गौर्दत्ता, ततः ते परस्परमेवं चिन्तयामासुः - यथेयमेका गौश्चतुर्णामस्माकं ततः कथं कर्त्तव्या ?, तत्रैकेनोकं परिपाट्या दुद्यतामिति, तथ समीचीनं प्रतिभातमिति सर्वैः प्रतिपन्नं, ततो यस्य प्रथमदिवसे गौरागता तेन चिन्तितं यथाऽहमद्यैव घोक्ष्यामि, कल्ये पुनरन्यो घोक्ष्यति, ततः किं निरर्थिकामस्याश्वारिं वहामि, ततो न किञ्चिदपि तस्यै तेन दत्तं, एवं शेवैरपि ततः सा श्रपाककुलनिपतितेव तृणसलिलादिविरहिता गतासुरभूत्, ततः समुत्थितः तेषां धिग्जातीयानामवर्णवादो लोके शेषगोदानादिलाभव्यवच्छेदश्थ, एवं शिष्या अपि ये चिन्तयन्ति न खलु केवलानामस्माकमाचार्यो व्याख्यानयति, किन्तु प्रातीच्छिकानामपि ततस्त एव विनयादिकं करिष्यन्ति, किमस्माकमिति ?, | प्रातीच्छिका अप्येवं चिन्तयन्ति - निजशिष्याः सर्व करिष्यन्ति, किमस्माकं कियत्कालावस्थाविनामिति ?, ततस्तेपामेवं चिन्तयतामपान्तराल एवाचार्योऽवसीदति, लोके च तेषामवर्णवादो जायते, अन्यवापि च गच्छान्तरे दुर्लभौ तेषां सूत्रार्थी, ततस्ते गोप्रतिग्राहकचतुर्द्विजातय इवायोग्याः द्रष्टव्याः, उक्तं च- “अन्नो दुजिहि कलं निरत्ययं से बहामि किं चारिं । चउचरणगविउ मया अवण्ण हाणी उ बहुजणं ॥ १॥ सीसा पडिच्छिगाणं भरोति तेऽवि १ अन्य घोषयति करने निरर्षिको अस्था महामि किं चारिम् । चतुवरणा भौता अवर्णे हा निस्तु बटु हानाम् ॥१॥ शिष्याः प्रती व्कान भर इति च ॥
For Park Use Only
~ 120~
तः १४ गोष्ट -
भावना.
१०
१३